________________
२०६४
वृद्धहारीतस्मृतिः ।
essoftar देवे न्यासकर्म्म समाचरेत् । आद्ययाssवाहनं विष्णोरासनं च द्वितीयया ॥२०४ तृतीयया च तत्पाद्यं चतुर्थ्याऽयं निवेदयेत् । पञ्चम्याऽऽचमनीयं तु दातव्यं च ततः क्रमात् ॥२०५ षष्ठ्या स्नानन्तु सप्तम्या वस्त्रमप्युपवीतकम् । अष्टम्या चैव गन्धन्तु नवम्याथ सुपुष्पकम् ॥ २०६ दशम्या धूपकञ्चैव मेकादश्या च दीपकम् । द्वादश्या च त्रयोदश्या चरुं दिव्यं निवेदयेत् ॥ २०७ चतुर्दश्या नमस्कारं पञ्चदश्या प्रदक्षिणम् । षोडश्या शयनं दत्त्वा शेषकर्म समाचरेत् || २०८ स्नानवस्त्रोपवीतेषु चरौ चाऽचमनं चरेत् । हुत्वा षोडशभिर्मन्त्रैः षोडशाऽऽज्याहुतीः क्रमात् ॥ २०६ तथावाऽऽज्येन होतव्यं मृद्भिः पुष्पाञ्जलिं चरेत् । तश्च सवं जपेत् सद्यः पौरुषं सूक्तमुत्तमम् ॥२१० कृत्वा माध्याह्निकस्नान मूद्ध, पुण्ड्रधरस्ततः । नित्यां सन्ध्यामुपास्याथ रविमण्डलमध्यगम् ॥२११ हरिं ध्यायन्नगदः स्यादेनसः शुचिरित्यृचा । सावित्रीं च जपेत्तिष्ठन् प्राणानायम्य पूर्वतः ॥ २१२ सौरेण चानुवाकेन उपस्थानजपं तथा । आत्मानं च परीक्ष्याथ दर्भान्तरपुटाञ्जलिम् || २१३ दक्षिणाङ्क तु विन्यस्य जपयज्ञाप्तये बुधः । सव्याहृतिं सप्रणवां गायत्रीं तु जपेत्तदा ||२१४
[ पञ्चमो