SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] भगवन्नित्यनैमित्तिकसमाराधनविधिवर्णनम् । १०६३ जप्तं हुतं तथा दानं बन्दनं च ततः क्रिया । शालग्रामसमीपे तु सर्वं कोटिगुणं भवेत् ॥१६३ ध्यात्वा कमलपत्राक्षं शालग्रामशिलोपरि। पौरुषेण तु सूक्तेन पूजयेत् पुरुषोत्तमम् ॥१६४ अनुष्टुभस्य सूक्तस्य त्रिष्टुबन्त्वाऽस्य देवता । पुरुषो यो जगदीजमृषिनारायणः स्मृतः ॥१६५ प्रथमां विन्यसेद्वामे द्वितीयां दक्षिणे करे। तृतीयां वामपादे तु चतुर्थी दक्षिणे तथा ॥१६६ पञ्चमी वामजानौ तु षष्ठी वे दक्षिणे तथा । सप्तमी वामकट्यां तु ह्यष्टमी दक्षिणेऽपि च ॥१६७ नवमी नाभिदेशे तु दशमी हृदि विन्यसेत् । एकादशी कण्ठदेशे द्वादशी वामवाहुके ॥१६८ त्रयोदशी दक्षिणे तु स्वास्यदेशे चतुर्दशीम् । अक्ष्णोः पञ्चदशी मूर्ध्नि षोडशीञ्चैव विन्यसेत् ॥१६६ एवं न्यासविधिं कृत्या पश्चाद् ध्यानं समाचरेत् । सहस्रार्कप्रतीकाशङ्कन्दर्पायुतसन्निभम् ।।२०० युवानं पुण्डरीकाक्षं सर्वाभरणभूषितम् । पीनवृत्तायतैर्दोभिश्चतुर्भिभूषणान्वितैः ।।२०१ चक्रं पद्म गदां शङ्ख विभ्राणं पीतवाससम् । शुक्लपुष्पानुलेपञ्च रक्तहस्तपदाम्बुजम् ।।२०२ सुस्निग्धनीलकुटिलकुन्तलैरुपशोभितम् । श्रिया भूम्या समाश्लिष्टपावं ध्यात्वा समर्चयेत् ।।२०३
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy