SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ १०६२ वृद्धहारीतस्मृतिः [पञ्चमोअसत्यकथनं हिंसामभक्ष्याणाञ्च भक्षणम् । शालग्रामजलं पीत्वा सर्व दहति तत्क्षणात् ॥१८३ द्विजानामेव नान्येषां शालग्रामशिलार्चनम् । बालकृष्णवपुर्देवं पूजयेत्तद् द्विजः सदा ॥१८४ पठेद्वाऽप्यर्चयेद् विष्णुं विशिष्टः शूद्रयोनिजः । स्थण्डिले हृदये वाऽपि पूजयेत्तद् द्विजः सदा ॥१८५ वाराहं नारसिंहञ्च हयग्रीवञ्च वामनम् । ब्राह्मणः पूजयेद्विष्णु यज्ञमूर्तिश्च केवलम् ॥१८६ क्षत्रियः पूजयेद्रामं केशवं मधुसूदनम् । नारायणं वासुदेवमनन्तश्च जनार्दनम् ।।१८७ प्रद्युम्न मनिरुद्धश्च गोविन्दञ्चाच्युतं हरिम् । सकर्षणं तथा कृष्णं वैश्यः संपूजयेत्तदा ॥१८८ बालं गोपालवेषं वा पूजयेच्छूद्रयोनिजः । सर्व एव हि संपूज्या विप्रेण मुनिसत्तमाः ! ॥१८६ सर्वेऽपि भगवन्मन्त्रा जप्तव्याः सर्वसिद्धिदाः। तस्माद्विजोत्तमः पूज्यः सर्वेषां भूतिमिच्छताम् ॥१६० पञ्चसंस्कारसम्पन्नो मन्त्ररत्नार्थकोविदः । शालग्रामशिलायां तु पूजयेत् पुरुषोत्तमम् । पूजितस्तुलसीपत्रैर्दद्याद्धि सकलं हरिः ॥१६१ यः श्राद्धं कुरुते विप्रः शालग्रामशिलाग्रतः । पितृणां तत्र तृप्तिः स्याद् गयाश्राद्धादनन्तरम् ॥११२
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy