SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] भगवन्नित्यनैमित्तिकसमाराधनविधिवर्णनम् । १०६५ शक्त्या च चतुरो वेदान् पुराणं वैष्णवं जपेत् । । चरितं रघुनाथत्य गीतां भगवतो हरेः ॥२१५ ध्यायन्वै पुण्डरीकाक्षं जप्त्वा वाऽप उपस्पृशेत् । पूर्ववत्तर्पयेद्देवं वैकुण्ठपार्षदं तथा ॥२१६ देवानृषी पितृन्श्चैव तर्पयित्वा तिलोदकैः । निष्पीड्य वस्त्रमाचम्य गृहमाविश्य पूर्ववत् ।।२१७ पूजयित्वाऽच्युतं भक्त्या पौरुषेण विधानतः । दैवं भूतं पैतृकं च मानुषश्च विधानतः ॥२१८ प्रीतये सर्वयज्ञस्य भोक्तु विष्णो यजेत्ततः वैकुण्ठं वैष्णवं होमं पूर्ववज्जुहुयात्तदा ॥२१६ चतुर्विधेभ्यो भूतेभ्यो बलिं पश्चाद्विनिक्षिपेत् । द्वारि गोदोहमात्रन्तु तिष्ठेदतिथिवाग्छया ॥२२० भोजयेच्चाऽऽगतान् काले फलमूलौदनादिभिः । महाभागवतान् विप्रान् विशेषेणैव पूजयेत् ।।२२१ मधुपर्कप्रदानेन पाद्यार्थ्याचमनादिभिः । गन्धैः पुष्पैश्च ताम्बूल धपै दीपै निवेदनैः ॥२२२ ब्रह्मासने निवेश्यैव पूजयेच्छ्रद्धयाऽन्वितः । सकृत्संपूजिते विप्रे महाभागवतोत्तमे ।।२२३ षष्टिं वर्षसहस्राणि हरिः संपूजितो भवेत् । मोहादनर्चयेद्यस्तु महाभागवतोत्तमम् ।।२२४ कोटिजन्मार्जितात्पुण्याद् भ्रश्यते नात्र संशयः । गृहे तस्य न चाश्नाति शतवर्षाणि केशवः ॥२२५
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy