SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] भगवन्नित्यनैमित्तिकसमाराधनविधिवर्णनम्। १०८७ त्वमग्ने धुभिरिति च सूक्तेन प्रत्यूचन्त्रिभिः । अस्य वामेति सूक्तेन प्रत्यूचं ब्रीहिभिस्तथा ॥१२६ अग्निं नरो दीधितिभिः सूक्तेन प्रत्यूचं तथा । समिद्भिः पिप्पलीरौद्रोतव्यं मुनिसत्तमाः !॥१३० अष्टोत्तरं सहस्रं वा शतमष्टोत्तरं तु वा . होतव्यमाज्यं पश्चात्तु तथा मन्त्र चतुष्टयम् ॥१३१ वैकुण्ठपार्षदं होमं पायसेन घृतेन वा। समाप्य होमं हविषः शेषं तस्मै निवेदयेत् । चतुर्मन्त्रांश्चतुर्वेदांश्चतुर्दिक्षु जपेत्ततः ॥१३२ तत्र जागरणं कुर्य्याद्गीतवादिननर्तकः । रजन्यां तु व्यतीतायां स्नात्वा नद्यां विधानतः ॥१३३ वैकुण्ठतर्पणं कुर्य्याहत्विग्भिाह्मणैः सहः । तर्पयित्वा पितॄन् देवान्वाग्यतो भवनं विशेत् ॥१३४ आचम्य पूर्ववत् पूजां कृत्वा होमं समाचरेत् । जुहुयाद्ब्रह्मणः स्तुत्यैः सूक्तश्च घृतपायसम् ।।१३५ पौरुषेण तु सूक्तेन श्रीसूक्तेन तथैव च । वैकुण्ठपार्षदं हुत्वा कर्मशेषं समापयेत् ॥१३६ नयनोन्मीलनं कुर्यात् सुमुहूर्तेन वैष्णवः । महाभागवतः श्रेष्ठः सूदमहेमशलाकया ॥१३७ द्वयेनैव प्रकुर्वीत नयनोन्मीलनं हरेः । निवेश्य भद्रपीठे तु स्नापयेत् सुसमाहितः ।।१३८
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy