SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ १०८६ वृद्धहारीवस्मृतिः। [पश्चमोवासुदेवो हयग्रीवस्तथा सङ्कर्षणो विभुः । महावराहः प्रद्युम्रो नारसिंहस्तथैव च ॥११८' .. अनिरुद्धो वामनश्च पूजनीया यथाक्रमात् । तस्य पूर्णशरावेषु लोकेशानचयेत्ततः ॥११६ मध्ये तु वारुणं कुम्भं पञ्चरत्नसमन्वितम्।' पूजयेद्गन्धपुष्पाद्यात्वाऽस्मिन् जलशायिनम् ॥१२० ततः संपूजयेद्देवं धान्योपरि निधाय च ॥१२१ व्याघ्रचर्म समास्तीय तस्मिन् कौशेयवाससि । निवेद्य पूजयेद् बिम्ब मूलमन्त्रेण वैष्णवः ॥१२२ तारणेषु चतुर्दिक्षु चण्डादीनर्चयेत् तदा । कुमुदादि सुरान् दिक्षु तथा धर्मादिदेवताः॥१२३ संपूज्य विधिना तस्मिन् पश्चाद्धोमं समाचरेत् । आग्नेयं कल्पयेत् कुण्ड मेखलाद्युपशोभितम् ॥१२४ अश्वत्थाद् वा शमीगर्भादाहृत्याग्नौ विनिक्षिपेत् । वैष्णवस्य गृहाद्वाऽपि समानीयानलं द्विजः ॥१२५ गृह्योक्तविधिनेवात्र प्रतिष्ठाप्य हुताशनम् ।। इध्माधानादि पर्यन्तं कृत्वा होमं समाचरेत् ।।१२६ पायसेन गवाज्येन तिलेीहिभिरेव च । चतुर्भिवैष्णवैः सूक्तैः पायसं जुहुयाद्धविः ।।१२७ हिरण्यगर्भसूक्तेन श्रीसूक्तेन तथैव च । अहं रुद्रेभिरिति च गवाज्यं जुहुयात्ततः ।।१२८
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy