________________
१०८४
वृद्धहारीतस्मृतिः। [पञ्चमोपीताम्बरं युवानं च चन्दनस्रग्विभूषितम् । शरत्पद्मासनं रत्नपद्माभाङ्घि करद्वयम् ॥६६ स्निग्धवणं महाबाहुं विशालोरस्कमव्ययम् । चक्रशङ्खगदावाणपाणिं रघुवरं हरिम् ॥६७ जानकीलक्ष्मणोपेतं मनसैवाचयेद्विभुम् । मन्त्रद्वयेनार्चयित्वा जप्त्वा चैव षडक्षरम् ।।६८ पश्चाद् वै जुहुयात् पञ्च प्राणानभ्यर्च्य तं पुनः । ध्यायन्वै मनसा विष्णु सुखं भुञ्जीत वाग्यतः ।।६६ एवं हृद्यचनं विष्णोरुत्तमं मुनिसत्तमाः ।। अत्यन्ताभिमता विष्णो हत्पूजा परमात्मनः ॥१०० सन्ध्याकाले तु सम्प्राप्ते रविमण्डलमध्यगम् । हिरण्यगर्भ पुरुषं हिरण्यवपुष हरिम् ॥१०१ श्रीवत्सकौस्तुभोरस्कं वैजयन्तीविराजितम् । शङ्खचक्रादिभिर्युक्तं भूषितैर्दोभिरायतैः ॥१०२ शुक्लाम्बरधरं विष्णु मुक्ताहारविभूषितम् । ध्यात्वा समर्चयेदेवं कुसुमैरक्षतैरपि ॥१०३ प्रणवेण च सावित्र्या पश्चात् सूक्तं निवेदयेत् । ध्यायन्नेवं जपेद्विष्णुं गायत्री भक्तिसंयुतः ॥१०४ तयैवाभ्य»गोविन्दं नमस्कृत्वा विसर्जयेत् । एवमभ्यच्चयेद्देवं त्रिसन्ध्यासु तथा हरिम् ।।१०५ वैश्वदेवावसाने तु पुरस्ताद् वै विभावसोः। उपलिप्य स्थण्डिले तु जुहुयाद्भक्तिकर्म तत् ॥१०६