________________
Sध्यायः ] भगवन्नित्यनैमित्तिकसमाराधनविधिवर्णनम् । १०८३
नानकाले तु संप्राप्ते नद्यां पुण्यजले शुभे । ध्यात्वा नारायणं देवं नागपर्यङ्कशायिनम् ॥८६ द्वादशार्णेन मनुना सोऽर्चयित्वाऽक्षतादिभिः । अष्टोत्तरशतं जप्त्वा ततः स्नानं समाचरेत् ॥८७ एतदप्यर्चनं पोक्तं ब्राह्मणस्य जगत्पतेः । होमकाले तु सवं परिस्तीर्यानलं शुभम् ॥८८ यज्ञरूपं महात्मानं चिन्तयेत् पुरुषोत्तमम् | साङ्गत्रयीमयं शुभ्रदिव्याङ्गोपाङ्गशोभितम् ॥८६ सर्वलक्षणसम्पन्नं शुद्धजाम्बूनदप्रभम् । युवानं पुण्डरीकाक्षं शङ्खचक्रधनुर्धरम् ॥६० सर्वयज्ञमयं ध्यायेद्वामाङ्काश्रितपद्मया । सम्पूज्य चाक्षतैरेव पश्चाद्धोमं समाचरेत् ॥११ प्राणाग्निहोत्रसमये सम्यगाचम्य वारिणा । कुशासने समासीनः प्राग्वा प्रत्यङमुखोऽपि वा । पतिष्यासनमात्मानं प्राणायामं समाचरेत् ॥६२ भन्त्रेणोद्बुध्य हृदयपङ्कजं केशरान्वितम् । तस्मिन्वह्नयर्कशीतांशुबिम्वान्यनु विचिन्तयेत् ॥ ६३
सर्वाक्षरमयं दिव्यरन्तपीठं तदुत्तरे । तन्मध्येऽष्टदलं पद्मं ध्यायेत्कल्पतरोरधः ॥ ६४ वीरासने समासीनं तस्मिन्नीशं विचिन्तयेत् । स्निग्धदूर्वादलश्यामं सुन्दरं भूषणैर्युतम् ॥६५