________________
१०८२
वृद्धहारीतस्मृतिः। [पञ्चमोनापहृत्य हरेद्रव्यं प्रामार्जनपरो भवेत् । भक्त्या संपूज्य देवेशं नासौ देवलकः स्मृतः ॥७५ भक्त्या योऽप्यर्चयेद्देवं ग्रामाचं हरिमव्ययम् । प्रसादतीर्थस्वीकारान्नासौ देवलकः स्मृतः ।।७६ शङ्खचक्रोर्ध्वपुण्ड्रादिधारणं स्मरणं हरेः। तन्नामकीर्तनश्चैव तत्पादाम्बुनिषेवणम् ॥७७ तत्पादवन्दनञ्चैव तं निवेदितभोजनम् । एकादश्युपवासश्च तुलस्यैवार्चनं हरेः ॥७८ तदीयानामर्चनञ्च भक्तिर्नवविधास्मृता । एतैर्नवविधैर्युक्तो वैष्णवः प्रोच्यते बुधैः ।।७६ एतगुणैविहीनस्तु न तु विप्रो न वैष्णवः।। कर्मणा मनसा वाचा न प्रमायेजनार्दनम् ।।८० भक्तिः सा सात्विकी ज्ञेया भवेदव्यभिचारिणी। . नान्यं देवं नमस्कुऱ्यान्नान्यं देवं प्रपूजयेत् ।।८१ नान्यप्रसादं भुञ्जीत नान्यदायतनं विशेत् । न त्रिपुण्डं तथा कुर्यात्पट्याकारं जगत्तूयम् ॥८२ यतिर्यस्य गृहे भुङ्क्ते तस्य भुङ्क्ते हरिं स्वयम् । हरिय॑स्य गृहे भुङ्क्ते तस्य भुङ्क्ते जगत्तयम् ॥८३ महाभागवतो विप्रः सततं पूजयेद्धरिम् । पाञ्चकाल्प विधानेन निमित्तेषु विशेषतः ॥८४ अप्वग्नौ हृदये सूर्ये स्थण्डिले प्रतिमासु च । षट्सु तेषु हरेः पूजा नित्यमेव विधीयते ॥८५