________________
ऽध्यायः ] भगवन्नित्यनैमित्तिकसमाराधनविधिवर्णनम् । १०८१ एवं प्रात्याह्निकं धार्यमुपवीतं सुदर्शनम् । पुण्ड्रास्तु प्रतिसन्ध्यन्तु नित्यमेव च धारयेत् ॥ ६४ द्वारवत्युद्भवं गोपी चन्दनं वेङ्कटोद्भवम् । सान्तरालं प्रकुर्वीत पुण्डं हरिपदाकृति ॥ ६५ श्राद्धकाले विशेषेण कर्ता भोक्ता च धारयेत् । अर्थ पवकतत्वज्ञः पभ्वसंस्कार दीक्षितः || ६६ महाभागवतो विप्रः सततं पूजयेद्धरिम् । नारायणः परं ब्रह्म विप्राणां दैवतं सदा || ६७ तस्य भुक्तावशेषन्तु पावनं मुनिसत्तमाः ! | हरिभुक्तोऽपि तं दद्यात्पितृणाञ्च दिवौकसाम् ||६८ तदेव जुहुयाद् वहौ भुञ्जीयात्तु तदेव हि । हरेरनर्पितं यत्तु देवानामर्पितश्च यत् ॥ ६६ मद्यमांससमं प्रोक्तं तद्भुञ्जीयाश्कदाचन ! हरेः पादजलं प्राश्यं नित्यं नान्यद्दिवौकसाम् ॥७० सुराणामितरेषां तु फलपुष्पजलादिकम् । निर्माल्यमशुभं प्रोक्तमस्पृश्यं हि कदाचन ॥ ७१ विधिष द्विजातीनां नेतरेषां कदाचन । शिवार्थनं त्रिपुण्डश्व शूद्राणां तु विधीयते ॥७२ द्विधानामिदं ये च विप्राः शिवपरायणाः । ते वै देवलका ज्ञेयाः सर्वकर्मवहिष्कृताः ॥७३ वैखानसास्तु ये विप्राः हरिपूजनतत्पराः । न ते देवलका ज्ञेया हरिपादाब्जसंश्रयात् ॥७४