SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ १०८० वृद्धहारीतस्मृतिः। [पञ्चमो प्रतिगृहेण सौम्येन जीवेद्यायावरेण वा । यस्त्वेकं दण्डमालम्ब्य धर्म ब्राझं परित्यजेत् ।।५३ विकर्मास्यो भवेद्विप्रः स याति नरकं ध्रुवम् ! शिखायज्ञोपवीतादि ब्रह्मकर्म यतिस्त्यजेत् ॥५४ सजीवं न च चण्डालो मृतश्वानोऽभिजायते । स्वरूपेणैव धर्मस्य त्यागो हानिर्भवेद् ध्र वम् ।।५५ कर्मणां फलसन्त्यागः सन्न्यासः स उदाहृतः। अनाश्रितः कर्मफलं कृत्य कर्म समाचरेत् ॥५६ स सन्न्यासी च योगी च स मुनिः सात्विकः स्मृतः ! तुष्ट्यर्थ वासुदेवस्य धर्म वै यः समाचरेत् ॥५७ स योगी परमेकान्तं हरेः प्रियतमो भवेत् । मोहाहास्यं विना विष्णोः किञ्चित्कर्म समाचरेत् ॥५८ न तस्य फलमाप्नोति तामसी गतिमश्नुते । हित्वा यज्ञोपवीतन्तु हित्वा चक्रस्य धारणम् ।।५६ हित्वा शिखोर्ध्वपुण्डू च विप्रत्वाद् भ्रश्यते ध्रुवम् । पञ्चसंस्कारपूर्वेण मन्त्रमध्यापयेद् गुरुः ॥६० संस्काराः पञ्च कर्तव्याः पारमैकान्त्यसिद्धये । प्रतिसम्वत्सरं कुर्य्यादुपाकर्म ह्यनुत्तमम् ॥६१ सर्ववेदव्रतं कृत्वा तत्र सम्पूजयेद्धरिम् । दद्यादत्रोपवीतानि विष्णवे परमात्मने ॥६२ ब्राह्मणेभ्यश्च दत्त्वाऽथ विभृयात् स्वयमेव च । तदग्नौ पूज्य सन्तर्प्य चक्रञ्चैवाकयेद् भुजे ॥६३
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy