________________
न्यायः] भगवन्नित्यनैमित्तिकसमाराधनविधिवर्णनम् । १०७६
एकैकमुपवीतन्तु यतीनां ब्रह्मचारिणाम् । गृहिणाश्च वनस्थाना मुपवीतद्वयं स्मृतम् ।।४२ सोत्तरीयं त्रयं वाऽपि विभृयाच्छुभतन्तुना । त्रयमूर्ध्व द्वयं तन्तु तन्तुत्रय मधोवृतम् ॥४३ त्रिवृञ्च ग्रन्थिनकेन उपवीतमिहोच्यते । अर्ककार्पासकौशेयक्षौमशोणमयानि च ॥४४ तन्तूनि चोपवीतानां योज्यानि मुनिसत्तमाः!। सर्वेषामप्यलाभे तु कुर्य्यात् कुशमयं द्विजः ॥४५ ऐणेयमुत्तरीयं स्याद्वनस्थब्रह्मचारिणाम् । शुक्लकाषायवसने गृहस्थस्य यतेः क्रमात् ॥४६ उक्तालाभेषु सर्वेषाङ्कशचीरं विशिष्यते । मौञ्जी वै मेखला दण्डं पालाशं ब्रह्मचारिणः ॥४७ त्रयस्तु वैष्णवा दण्डा यतेः काषायवाससी । कुशचीरं वल्कलं वा वनस्थस्य विधीयते ।।४८ कटीसूत्रञ्च कौपीनं महच्च शुक्लवाससा ! कुण्डके चाङ्गुलीयानि गृहस्थस्य विधीयते ।।४६ मुण्डिनौ सूक्ष्मशिखिनौ यत्यन्तेवासिनावुभौ । वानप्रस्थो यतिर्वा स्यात्सदा वै श्मश्रुरोमधृत् ॥५० सुकेशी सुशिखो वा स्याद् गृहस्थः सौम्यवेषवान् । यतिश्च ब्रह्मचारी च उभौ भिक्षाशनौ स्मृतौ ॥५१ शाकमूलफलाशी स्याद्वनस्थः सततं द्विजः। कुसूलकुम्भधान्यो वा व्याहिको वा भवेद्गृही ॥५२