________________
१०७८
वृद्धहारीतस्मृतिः। [पञ्चमोतद्विना वर्तते मोहादात्मचारः सनातनात् । वस्मात्तु भगवहास्यमात्मनां श्रुतिचोदितम् ॥३२ दास्यं विना कृतं यत्तु तदेव कलुषं भवेत् । विशिष्टं परमं धर्म दास्यं भगवतो हरेः॥३३
ऋषय ऊचुः ! . कथं दास्यं हि तद्वृत्तिः कथं नैसर्गिक नृणाम् । सत्सर्व ब्रूहि तत्वेन लोकानुग्रहकाम्यया ॥३४
ब्रह्मोवाच । सुदर्शनोर्ध्व पुण्डादिधारणं दास्यमुच्यते । तद्विधिवैदिकी या च तदाज्ञा चोदिता क्रिया ॥३५ तत्राप्याराधनत्वेन कृता पापस्य नाशिनी। निरूपणत्वाहास्यस्य धायं चक्रं महात्मनः ।।३६ अङ्गत्वात् सर्वधर्माणां वैष्णवत्वाच्च धर्मतः । कर्म कुर्याद्भगवतस्तस्मै राज्ञा मनुस्मरन् ॥३७ विधिनैव प्रतप्तेन चक्रेणवाकयेद्भुजे।। तथैव विभृयाद्भाले पुण्डु शुभ्रतरं मृदा ॥३८ विभृयादुपवीतन्तु सव्यस्कन्धे विधानतः। कण्ठे पद्माक्षमालाञ्च कौशेयं दक्षिणे करे ॥३६ उभे चिह्न विना विप्रो न भवेद्धि कथञ्चन । न लभेत्कर्मणां सिद्धिं वैदिकानां विशेषतः ॥४० आश्रमाणां चतुर्णाञ्च स्त्रीणाञ्च श्रुतिचोदनात् । अङ्कयेञ्चक्रशङ्खाभ्यां प्रतप्ताभ्यां विधानतः ।।४१