SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] भगवन्नित्यनैमित्तिकसमाराधनविधिवर्णनम् ।। १०७५ ॥पञ्चमोऽध्यायः ॥ अथ भगवन्नित्यनैमित्तिकसमाराधनविधिवर्णनम् । _अम्बरीष उवाच । भगवन् ! ब्रह्मणा यत् तु सम्प्रोक्तं स्यान्मनोः पुरा । तत्सवं परमं धर्म वक्तुमर्हसि मेऽनघ !॥१ . हारीत उवाच । सर्गादौ लोककर्ताऽसौ भगवान् पद्मसम्भवः । मन्वादिप्रमुखान् विप्रान् ससृजे धर्मगुप्तये ॥२ मनु भृगु वशिष्ठश्च मरीचि दक्ष एव च । अङ्गिराः पुलहश्चैव पुलस्त्योऽत्रिमहातपाः ॥३ वेदान्तपारगास्ते च तं प्रणम्य जगद्गुरुम् । भगवन् ! परमं धर्म भवबन्धापनुत्तये ॥४ वद सर्वमशेषेण श्रोतुमिच्छामहे वयम् ।। इत्युक्तःस द्विजैः सोऽपि ब्रह्मा नत्वा जनार्दनम् ॥५ वेदान्तगोचरं धर्म तेषां वक्तुं प्रचक्रमे। सर्वेषामवलोकानां स्रष्टा धाता जनार्दनः ॥६ सर्ववेदान्ततत्वार्थसर्वयज्ञमयः प्रभुः। यज्ञो वै विष्णुरित्यत्र प्रत्यक्षं श्रूयते श्रुतिः ॥७ इज्यते यत् समुद्दिश्य परमो धर्म उच्यते । भगवन्त मनुद्दिश्य हूयते यत्र कुन वै।।८ . तत्र हिंसाफलं पापं भवेदत्र विगर्हितम् । तस्मात् सर्वस्य यज्ञस्य भोक्तारं पुरुषं हरिम् ।।
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy