SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ १०७४ . वृद्धहारीतस्मृतिः। . [चतुर्थो औरसो दत्तकश्चैव क्रीतः कृत्रिम एव च । क्षेत्रजः कानिकश्चैव दौहित्रः सत्तमः स्मृतः ॥२५६ पिण्डजश्च परश्चैषां पूर्वाभावे परः परः । पुत्रः पौत्रश्च तत्पुत्रः पुत्रिकापुत्र एव च ।।२५७ पुत्री च भ्रातरश्चैव पिण्डदाः स्युर्यथाक्रमात् । एवं धर्मेण नृपतिः शासयेत्सर्वदा प्रजाः ॥२५८ यदुक्तं मनुना धर्म व्यवहारपदं प्रति । विलोक्य तश्च विद्वद्भि वीतरागै विमत्सरैः ॥२५६ विमृश्य धर्मविद्भिश्च विमलैः पापभीरुभिः । धर्मेणैव सदा राजा शासयेत् पृथिवीं स्वकाम् ॥२६० विपरीतां दण्डयेद्वै यावद्दोपनाशनम् । सभ्या अपि च दण्ड्या वै शास्त्रमार्गविरोधिनः ।।२६१ राजधर्मोऽयमित्येवं प्रसङ्गात् कथितो मया । कात्यायनेन मनुना याज्ञवल्क्येन धीमता ।।२६२ नारदेन च सम्प्रोक्तं विस्तरादिदमेव हि । तस्मान्मया विस्तरेण नोक्त मत्र नृपोत्तम ! ॥२६३ परं भागवतं धर्म विस्तरेण ब्रवीमि ते । विष्णोरभ्यर्चनं यत्तु नित्यं नैमित्तिकं नृप ! ॥२६४ यदाह भगवान् धातुस्तेन स्वायम्भुवस्य च । नारदस्य च मे सम्यक् तदद्य कथयामि ते ॥२६५ इति वृद्धहारीतस्मृतौ विशिष्टधर्मशास्त्रे प्राप्तकालभगवत् समाराधनविधिर्नाम चतुर्थोऽध्यायः।
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy