SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ १०६८ वृद्धहारीतस्मृतिः । मिथ्यापवादशुद्धयर्थं पञ्च दिव्यानि कल्पयेत् । ज्ञात्वा शुद्धेषु दिव्येषु शुद्धान्वे मानयेत्तथा ॥ १६० तन्मिथ्याशंसिनं दुष्टं जिह्वाच्छेदेन दण्डयेत् । परद्रव्यादिहरणं परदाराभिमर्शनम् ॥१६१ यः कुर्यात् तु बलात् तस्य हस्तच्छेदः प्रकीर्तितः । यो गच्छेत् परदारांस्तु बलात्कामाच्च वा नरः ॥ १६२ सर्वस्वहरणं कृत्वा लिङ्गच्छेदञ्च दापयेत् । दहेत्कटाग्निना देहं गुरुस्त्रीगामिनं तदा || १६३ ब्रह्मघ्नं च सुरापं वा गोस्त्री बालनिषूदनम् । देवविप्रस्वहर्तारं शूलमारोपयेन्नरम् ॥१६४ दैवतं ब्राह्मणं गाव पितृमातृगुरुस्तथा । पादेन ताडयेद्यस्तु तस्य तच्छेदनं स्मृतम् ॥१६५ तेषामुपरि हस्तं तु दोष्णो श्छेदन्तु कामतः । प्रत्येकं दण्डनं कुर्यादुर्वृत्तस्य परखियाम् ॥१६६ चुम्बने तालुविच्छेदो द्वौ हस्तौ परिरम्भणे । हस्तस्याङ्गुलि विच्छेदः केशादिग्रहणे स्त्रियः || १६७ दाहयेत्ततबैलेन हस्तमुष्ट्या च ताडनम् । सुरतं याचमानस्य जिह्वाच्छेदं च कामतः ॥१६८ कामेङ्गितेषु सर्वत्र ताल्वाश्च दहनं स्मृतम् । दृष्ट्वा मुहुः प्रेरणे तु नेत्रयोः स्फोटनं चरेत् ॥१६६ मानकूटं तुलाकूटं कूटसाक्ष्यकृतां नृणाम् । सहस्र दापयेद्दण्ड वृत्त्या स्वस्यापनायने ||२०० [ चतुर्थी
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy