________________
ऽध्यायः ] प्राप्तकालभगवत्समाराधनविधौराजधर्मवर्णनम् । १०६७
एवमादि निषिद्धं यत्प्रातिलोम्यं यदुच्यते ।
यत्सौम्यशिल्पं लोकेऽस्मिन् सौम्यं तदनुलोमकम् ॥१७६ मृद्दारुशैललोहानां शिल्पं सौम्यमिहोच्यते । न्यायेन पालयेद्राजा पृथिवीं शास्त्रमार्गतः ॥ १८० स्वराष्ट्रकृतधर्मस्य सदा पढभागसिद्धये । राज्ञां राष्ट्रकृतं पापमिति धर्मविदो विदुः ।। १८१ तस्मादपापसंयुक्तां यथा संरक्षयेद्भुवम् । अमिदङ्गरदभ्वोरं हिंस्र दुर्वृत्तमेव च ॥ १८२ घूत्तं पतितमित्यादीन् हन्यादेवाविचारयन् । अङ्कयित्वा श्वपादेन गर्दभे चाधिरोद्य वै ।। १८३ प्रवासयेत् स्वराष्ट्रात्तु ब्राह्मणं पतितं नृपः । कुलटां कामचारेण गर्भघ्नीं भर्तृ हिंसकाम् ॥ १८४ निकृत्तकर्णनासोष्ठीं कृत्वा नारीं प्रवासयेत् । न्यायेन दण्डनं राज्ञः स्वर्गकीर्तिविवर्धनम् || १८५
अदण्ड्यान् दण्डयन् राजा तथा दण्ड्यानदण्डयन् । अयशो महदाप्नोति नरकं चाधिगच्छति ॥१८६ दिग्दण्डस्त्वथ वाग्दण्डो धनदण्डो वधस्तथा । ज्ञात्वाऽपराधं देशं च जनं कालमदोऽपि वा ॥ १८७ वयः कर्म च वित्तश्च दण्ड' न्यायेन पातयेत् । निश्चित्य शास्त्रमार्गेण विद्वभिः सह पार्थिवः || १८८ गुरूणां तु गुरु दण्ड ं पापानां च लघोर्लघुम् । व्यवहारान् स्वयं पश्यन् कुर्यात् सभ्यैवृ तोऽन्वहम् ॥१८६