________________
ऽध्यायः] प्राप्तकालभगवत्समाराधनविधौकृषिवर्णनम् । १०६५
पुष्पाणि फलमूलाद्य सद्व्यं मुनिभिः स्मृतम् । सर्वत्र परिगृह्णीयाद् भूमिं धान्यं फलादिकम् ॥१५७ भूमि यस्तु प्रगृह्णाति भूमि यस्तु प्रयच्छति। । तावुभौ पुण्यकर्माणौ नियतौ स्वर्गगामिनौ ॥१५८ धान्यं करोति दातारं प्रगृहीतारमेव च । धान्यं नृपवरश्रेष्ठ ! इहलोके परत्र च ॥१५६ तस्माद्धान्यं धरित्रीच प्रतिगृह्णीत सर्वतः । कुसुम्भधान्य एव स्यात् कुसुम्भधान्यवान् नृप !॥१६० 'शीलोज्छेनापि वा जीवेच्छ्रे यानेषां परो वरः। जीवेद्यायावरेणैव विप्रः सर्वत्र सर्वदा ॥१६१ वर्जयित्वैव पाषण्डान् पतितांश्चान्यदविकान् ! कृषिणा वाऽपि जीवेत सतां चानुमतेन वा॥१६२ न वाहयेदनडुहं क्षुधातं श्रान्तमेव च । तस्य पुंस्त्वमहित्वैव वाहयेद् द्विजपुङ्गवः ॥१६३ कमलोप मकुर्वन्वै कृषि कुर्वीत वै द्विजः। . हरेः पूजां यथाकालं कृषिलोपे समाचरेत् ॥१६४ न ब्राह्मथ सन्त्यजेद् विप्र स्तथा यज्ञादिकर्म च । आपद्यपि न कुर्वीत सेवां वाणिज्यमेव च ॥१६५ असत्प्रतिग्रहं स्तेयं तथा धर्मस्य विक्रयम् । अन्यायोपार्जितं द्रव्यमापद्यपि विवर्जयेत् ॥१६६ भृतकाध्यापनं चैव सदासत्कर्मभावनम् । प्रीतये वासुदेवस्य यहत्तमसतामपि ॥१६७