________________
१०६४
वृद्धहारीतस्मृतिः। [चतुर्थोशूयां वैश्यात् तु करणस्थिरैर्वा तेऽनुलोमजाः। विप्रायां क्षत्रियात् सूतः वैश्याद्वैदेहिकस्तथा ॥१४६ चण्डालस्तु तथा शूद्रात्सर्वकर्मसु गर्हितः। मागधः क्षत्रियायां वै वैश्श्याक्षत्रात् तु शूद्रतः ॥१४७ शूद्रादयोगवं वैश्या जनयामास वै सुतम् । रथकारः करण्यान्तु माहिष्येण प्रजायते ॥१४८ असत्सन्ततयो झेयाः प्रतिलोमानुलोमजाः । प्रतिलोमासु व जाता गहिताः सर्वकर्मणाम् ।।१४६ एतेषां ब्राह्मणाद्याश्च षट्कर्मसु नियोजिताः । त्रिकर्मसु क्षत्रविशावेकस्मिन् शूद्रयोनिजः॥१५० प्रतिग्रहश्च वृत्त्यर्थं ब्राह्मणस्तु समाचरेत् । असदेवासतां प्रोक्तं निषिद्ध तद्विवर्जयेत् ॥१५१ पाषण्डाः पतिताः पापास्तथैव प्रतिलोमजाः। कुलटाश्च विकर्मस्सा असतः परिकीर्तिताः ॥१५२ लवणं तिलकासं चर्म च त्रपुसीसकम् । आयसं मधु मांसश्च विषमन्नं घृतं रुजम् ॥१५३ किल्विषं गजमुष्ट्रञ्च सर्षपं जलमेव च । तृणं काष्ठश्च कूष्माण्ड शिंशपाञ्च विवर्जयेत् ॥१५४ महिषी गर्दभञ्चैव वाजिनश्च तथाऽऽविकम् । दासीमजा यानवृक्षा न पञ्चानडुहन्तुलाम् ॥१५५ एवमाघ मसद्व्यं प्रयत्नेन विवर्जयेत् । धान्यं वासांसि भूमिश्च सुवर्ण रत्नमेव च ॥१५६