SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ १०६२ वृद्धहारीतस्मृतिः । पश्चादत्वमनं दद्याज्जलैर्गन्धमिविश्रितैः । अभ्यर्चा पौरुषस्यास्य सूक्तस्य सुरसत्तमान् ॥ १२४ विष्ण्वर्पितचतुर्भागं क्रमाद्धव्यस्य चार्पयेत् । अनन्ततार्क्ष्यसेनेशपवित्राणां निवेदयेत् ||१२५ तीर्थेन सहितं हव्यं पृथक् पात्रेषु निक्षिपेत् । सर्वेषां वारिपूर्वेण पश्चात् पुष्पाञ्जलिश्चरेत् ॥ १२६ नीराजनं ततो दत्त्वा ताम्बूलभ्व निवेदयेत् । प्रणमेच्च ततो भक्त्या रम्यैः स्तोत्रैः शुभाह्वयैः ।। १२७ प्रसार्य बाहू पादौ च बद्ध नाञ्जलिना सह । स्तुवन् स्तुतिभिरेवं तु प्रणामो दीर्घ उच्यते ॥ १२८ नवा दीर्घप्रणामैश्व स्तुत्वा स्तुतिभिरेव च । सर्वैश्च वैष्णवैर्मन्त्रैः कुर्यात् पुष्पाञ्जलिं ततः ।। १२६ सूक्तैश्च विष्णुदैवत्यैर्नामभिः शार्ङ्गिणस्तथा । ततः शुभासने स्थित्वा जपेन्मन्त्रमनुत्तमम् ॥१३० न्यासमुद्रादिपूर्वेण ध्यायन्वै कमलेक्षणम् । अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा ॥ १३१ जप्त्वा पुष्पाञ्जलिं दद्याद्यथाशक्त्या च मन्त्रतः । नमेयोगेन देवेशः हृदिस्थं कमलेक्षणम् ॥१३२ मनसि वाऽचयित्वास्मिन् समाधौ विरमेत् सुधीः । प्रातरौपासनं कृत्वा तंत्र होमं समाचरेत् ॥ १३३ आज्येन चरुणा वाऽपि समिद्भिर्वा च यज्ञियैः । तण्डुलैघृतमिश्रर्वा बिल्पत्रैरथापि वा ॥ १३४ [ चतुर्थी
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy