SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] प्राप्तकालभगवत्समाराधनविधिवर्णनम्। १०६१ अश्वत्थं प्लक्षनीपञ्च वटमारग्वधं तथा । कलम्बिका च निर्गुण्डिमुण्डिवार्ताकमेव च ॥११३ ऊपरं लवणञ्चैव श्वेतश्च वृहतीफलम् । नखचर्मातकञ्चैव चिश्चिलञ्चेति यत्नतः॥११४ विज्ञेयानि च भक्ष्याणि वर्जयेद्यज्ञकर्मणि।. श्लेष्मातकञ्च विड्जानि प्रत्यक्षलवणं तथा ॥११५ अनिदर्शाहगोक्षीरमवत्साया स्तथाऽऽविकम् । ओष्ट्रमेकशफञ्चैव पशूनां विड्भुजामपि ॥११६ अतिदीणं तथा तक्रं करनिर्मन्थितन्दधि । ताम्रण संयुतं गव्यं क्षीरश्च लवणान्वितम् ॥११७ घृतं लवणसंयुक्तं प्रयत्नेन विवर्जयेत् । सूपान्नश्च गुड़ान्नञ्च शकरामधुसंयुतम् ॥११८ मरीचिमिश्रं दध्यन्नं पायसान्नं फलैः सह । तुलसीदलसम्मिश्रं जलैः सम्प्रोक्ष्य वाग्यतः ॥११६ अष्टाविंशतिवारन्तु मूलमन्त्राभिमन्त्रितम् । मुद्राञ्च सौरभेयीन्तां दर्शयेन्मन्त्रमुच्चरन् ।।१२० सुधाब्धिममृतं बीजं चिन्तयन् परमात्मनः । दद्यात् पुष्पाञ्जलिं पश्चाद्दशवारं समाहितः ॥१२१ पेषणक्रियया (आपोशनक्रिया)पूर्वमन्नमस्मै निवेदयेत् । शतवारं जपेन्मन्त्रं घण्टाशब्दं निनादयन् ॥१२२ जपेत्पीयूषदेवत्यान्मन्त्रानेकाग्रचेतसा । हरे क्तवतः पश्चाद्दद्याद्वारि सुवासितम् ॥१२३
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy