SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] प्राप्तकालभगवत्समाराधनविधिवर्णनम्। २०५६ वेदा वेदवती धात्री महालक्ष्मीः सुखालया। भार्गवी च तदा सीता रेवती रुक्मिणी प्रभा ॥१२ मत्स्यकूर्मादिमूर्तीनां शक्तयः सम्प्रकीर्तिताः । एवं सशक्तयः पूज्याः केशवाद्याः सुरेश्वराः ॥६३ पश्चात्सशक्तयः पूज्या श्चक्रशङ्खादिहेतयः। शङ्ख चक्र गदा पद्मशाङ्गश्च मुसलं हलम् ॥६४ वाणञ्च खड्गखेटं च छुरिका दिव्यहेतयः। भद्रा सौम्या तथा माया जया च विजया शिवा ॥६५ सुमङ्गला सुनन्दा च हिता रम्या सुरक्षिणी। शक्तयो दिव्यहेतीनां पूजनीयाः सनातनाः ॥६६ बहिर्लोकेश्वराः पूज्याः साध्याश्च समरुद्गणाः । एवमावरणं सर्वमर्चयेत्परमात्मनः । पुनरादिकं दत्त्वा धूपदीपैनिवेदयेत् ॥६७ प्रागुदीच्याञ्च सदृशं नागराजं तथापरे। पुरतो वैनतेयश्च पूजयेच्छक्तिभिः सह ।।६८ सेनापतेः सूत्रवती नागराजस्य वारुणीम् । भद्राञ्चलां तथा यस्य पूजयेद्वैष्णवोत्तमः ।।६६ गुग्गुलु महिषाक्षीञ्च सालनिर्यासमेव च । अगरु देवदारुञ्च उशीरं श्रीफलं तथा ॥१०० हीबेरं चन्दनं मुस्ता दशाङ्ग धूपमुच्यते। गवाज्येन च संयोज्यं दद्याधुपं सुवासितम् ॥१०१
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy