SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ १०५६ वृद्धहारीतस्मृतिः । विस्तीर्णपुष्पपर्यङ्क देव्या सहितमच्युतम् । सन्निधा वासने स्थित्वा कुशे पद्मासने स्थितः || ६० प्राणायामविधानेन भूतशुद्धिं विधाय च । प्राणायामत्रयं कृत्वा पश्चाद्ध्यांनं यथोक्तवत् ॥६१ परव्योम्नि स्थितं देवं लक्ष्मीनारायणं विभुम् । पराभिः शक्तिभिर्युक्तं भूलीलाविमलादिभिः ॥६२ अनन्तविहगाधीश सैन्याद्यैः सुरसत्तमैः । चण्डाद्यैः कुमुदाद्यैश्च लोकपालैश्च सेवितम् ॥६३ चतुर्भुजं सुन्दराङ्ग नानारत्नविभूषणम् । वामाङ्कस्थश्रिया युक्तं शङ्खचक्रगदाधरम् ॥६४ मन्त्ररत्नविधानेन न्यासमुद्रादिकर्मकृत् । पञ्चौपनिषदं न्यासं कुर्यात् सर्वत्र कर्मसु ॥ ६५ ओ मीशाय नमः परायेति परमेष्ठ्यात्मने नमः । ओं यां नमः परायेति ततः पुरुषात्मने नमः ||६६ ओं रां नमः परायेति ततो विश्वात्मने नमः । ओं वां नमः परायेति स्वनिवृत्यात्मने नमः ॥६७ ओंलां नमः परायेति ततः सर्वात्मने नमः । शिरोनासाग्रहृदयगुह्यपादेषु विन्यसेत् ॥६८ यथाक्रमेण तन्मन्त्रान् पञ्चाङ्गेषु क्रमान्न्यसेत् । तन्मुद्रया तदाऽऽत्राह्य दद्यादासनमेव च ॥ ६६ पाद्यार्थ्यांचमननानपात्राणि स्थाप्य पूजयेत् ! पूरयित्वा शुभजलं पात्रेषु कुसुमैर्युतम् ॥७० [ चतुर्थी
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy