SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] प्राप्तकालभगवत्समाराधनविधिवर्णनम् । १०६५ शतवारं सहस्र वा तुलसीमिश्रितै लैः । वैकुण्ठपार्षदं पश्चात्तर्पयेच्च यथाविधि ॥५० अनन्तदीपारेखादिदेवतानामनुक्रमात् । एकैकमञ्जलिं दत्त्वा पश्चादाचमनं चरेत् । श्रीशस्याऽऽराधनार्थं वै कुर्यात् पुष्पस्य सञ्चयम् ॥५१ तुलसीविल्वपत्राणि दूर्वा कौशेयमेव च । विष्णुक्रान्तं मरुवक केशाम्बुददलं तथा ॥५२ उशीरं जातिकुसुमं कुन्दन्चैव कुरण्टकम् । शमीश्चम्पाङ्कदम्बञ्च चूतपुष्पं च माधवीम् ॥५३ पिप्पलस्य प्रबालानि जाम्बवं पाटलं तथा। आस्फोटं कुटजं लोध्र कर्णिकारञ्च किंशुकम् ॥५४ नीपार्जुने शिंशपञ्च श्वेतकिंशुकनामकम् । जम्बीरं मातुलिङ्ग च यूथिकारचयं तथा ॥५५ पुन्नागं वकुलं नागकेशराशोकमल्लिकाः । शतपनं च हारिद्रं करवीरं प्रियङ्गु च ॥५६ नीलोत्पलं तूत्पलञ्च नन्द्यावर्तञ्च कैतकम् । घट स्थलपद्मच सर्वाणि जलदानि च ॥५७ तत्कालसम्भवं पुष्पं गृहीत्वाऽथ गृहं विशेत् । वितानादियुते दिव्यधूपदीपैविराजिते ॥५८ चन्दनागरुकस्तूरी कर्पूरामोदवासिते । विचित्ररङ्गवल्याढ्य मण्डपे रत्नपीठके ॥५६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy