SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] प्राप्तकालभगवत्समाराधनविधिवर्णनम्। १०५३ अभिमन्त्र्य जलं पश्चान्मूलमन्त्रोण वैष्णवः । निमज्ज्य तुलसीमिश्रं जलं सम्प्राशयेत्ततः ॥२८ आचम्य मार्जनं कुर्यात् कुशैः सतुलसीदलैः । पौरुषेण तु सूक्तन आपो हि ष्ठादिभिस्तथा ॥२६ निमज्ज्याप्सु जले पश्वास्त्रिवारमघमर्षणम्। उत्थाय पुनराचम्य पश्चादप्सु निमज्ज्य वै॥३० मन्त्ररत्न त्रिवारं तु जपन्ध्यायन् सनातनम् । पिवेदुत्थाय तेनैव त्रिवारमभिमन्त्रितम् ॥३१ आचम्य तर्पयेदेवान् पितृनपि विधानतः । निष्पीड्य कूले वस्त्रं तु पुनराचमनं चरेत् ॥३२ धौतवस्त्रं सोत्तरीयं सकौपीनं धरेस्थितम् । .. निबद्धशिखकच्छस्तु द्विराचम्य यथाविधि ॥३३ धारयेदूर्ध्वपुण्ड्राणि मृदा शुभ्राणि वैष्णवः । श्रीकृष्णतुलसीमूलमृदा वाऽपि प्रयत्नतः ॥३४ मन्त्रोणैवाभिमन्त्र्याथ ललाटादिषु धारयेत् । नासिकामूलमारभ्य विभृयाच्छ्रीपदाकृति ॥३५ सान्तरालं भवेत् पुण्डूं दण्डाकारं तु वा तथा । ललाटादि तथा पश्चाग्रीवान्तं केशवादिभिः ॥३६ नाम्नां द्वादशभिर्मनि वासुदेवं तलाम्बुना । पवित्रपाणिः शुद्धात्मा सन्ध्यां कुर्यात् समाहितः ॥३७ प्रादेशमात्रौःकौशेयौ सागौ मूलयुतौ तथा। अन्तर्गभी सुविमलौ पवित्र कारयेद्विजः ॥३८
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy