SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ [चतुर्थों १०५२ वृद्धहारीतस्मृतिः। उपविष्टः शुचौ देशे अन्तर्जानुकरस्तथा । पवित्रपाणिराचामेत् प्रमृतिस्थः स वारिणा ॥१८ त्रिः प्राश्याङ्गुष्ठमूलेन द्विधोन्मृज्य कपोलको । मध्यमाङ्गुलिभिः पश्चाविरोष्ठौ मृजयेत्तथा ॥१६ नासिकौष्ठान्तरं पश्चात् सर्वाङ्गुलिभिरेव च । पादौ हस्तौ शिरश्चैव जलैः संमार्जयेत्ततः॥२० अङ्गुष्ठतर्जनीभ्यां तु स्पृशेत् द्वौ नासिकापुटौ । अङ्गुष्ठानामिकाभ्यां तु चक्षुःश्रोचे जलैः स्पृरोत् ॥२१ कनिष्ठाङ्गुष्ठनामिञ्च तलेन हृदयन्ततः। सर्वाङ्गुलिभिः शिरसि बाहुमूले तथैव च । नामभिः केशवाद्य श्च यथासङ्घयमुपस्पृशेत् ।।२२ द्विराचामेत्तु सर्वत्र विण्मूत्रोत्सर्जने त्रयम् । सामान्यमेतत् सर्वेषां शौचं तु द्विगुणोदितम् ॥२३ आचम्यातःपरं मौनी दन्तान् काष्ठेन शोधयेत् । . प्राङ्मुखोदङ्मुखो वापि कषायं तिक्तकण्टकम् ॥२४ कनिष्ठाग्रमितस्थूलं द्वादशाङ्गुलमायतम् । पर्वाधः कृतकूर्चेन तेन दन्तान्निकर्षयेत् ॥२५ अपां द्वादशगण्डूषः वां संशोधयेद्विजः । मुखं संमार्जयित्वाऽथ पश्चादाचमनं चरेत् । पवित्रपाणिराचम्य पश्चात् स्नानं समाचरेत् ॥२६ नद्यां तडागे खाते वा तथा प्रस्रवणे जले । तुलसीमृत्तिकां धात्रीमुपलिप्य कलेवरे ।।२७
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy