________________
ऽध्यायः ] प्राप्तकालभगवत्समाराधनवेधिवर्णनम्। १०५१
बहुजन्मबहुक्लेशगर्भवासादि दुःखिते। वसामि सर्वदोषाणामालये दुःखभाजने ॥७ अस्माद्विमोक्षणायैव चिन्तयिष्यामि केशवम् । वैकुण्ठे परमव्योम्नि दुग्धाब्धौ वैष्णवे पदे ॥८ अनन्तभोगिपर्यङ्क समासीनं श्रिया सह। इन्द्रनीलनिभं श्यामं चक्रशङ्खगदाधरम् ।।8 पीताम्बरधरं देवं पद्मपत्रायतेक्षणम् । श्रीवत्सकौस्तुभोरस्कं सर्वाभरणभूषितम् ॥१० चिन्तयित्वा नमस्कृत्वा कीतयेदिव्यनामभिः । सङ्कीत्य नामसाहस्र नमस्कृत्वा गुरूनपि ॥११ तुलसी काञ्चनं गाब्च संस्पृश्याथ समाहितः। दूराबहिर्विनिष्क्रम्य शुचौ देशे च निर्जने ॥१२ कर्णस्थ ब्रह्मसूत्रस्तु शिरः प्रावृत्य वाससा । कुर्यानमूत्रपुरीषे च ष्ठीवनोच्छासवर्जितः ॥१३ अहन्युदङ्मुखो रात्रौ दक्षिणाभिमुखस्तथा । समाहितमना मौनी विण्मूत्र विसृजेत्ततः ॥१४ उत्थायातन्द्रितः शौचं कुर्यादभ्युद्धृतैर्जलैः । गन्धलेपक्षयकरं यथासङ्ख्यां मृदा शुचिः॥१५ . अर्द्ध प्रसृतिमात्रां तु मृदं दद्याद्यथोक्तवत् । षडपाने त्रिलिङ्ग तु सव्यहस्ते तथा दश ॥१६ उभयोः सप्त दद्याञ्च तिस्रस्तिस्त्रस्तु पादयोः । आजङ्घान्मणिबन्धात्तु प्रक्षाल्य शुभवारिणा ॥१७