________________
१०५०
वृद्धहारीतस्मृतिः ।
ओं नमो भगवते महासुदर्शनाय हुं फट् । इति षोडशाक्षर मिति सुदर्शनविधानम् ॥ ३६२
चतुर्थी
इति वृद्धहारीतस्मृतौ विशिष्टवर्म्मशास्त्रे भगवन्मन्त्रविधानं नाम तृतीयोऽध्यायः ॥
॥ चतुर्थोऽध्यायः ॥
अथ प्राप्तकालभगवत्समाराधनविधिवर्णनम् । हारीत उवाच ।
अथ वक्ष्यामि राजेन्द्र ! विष्णोराराधनं परम् । प्रत्यूषे सहसोत्थाय सम्यगाचम्य वारिणा ॥ १ आत्मानं देहमीशब्च चिन्तयेत् संयतेन्द्रियः । ज्ञानानन्दमयो नित्यो निर्विकारो निरामयः ॥ २ देहेन्द्रियात्परः साक्षात्पञ्च विंशात्मको ह्यहम् | अस्मिन् देशे वसाम्यद्य शेषभूतो हि शार्ङ्गिणः ॥ ३ शुक्रशोणितसम्भूते जरारोगाद्युपद्रवे । मेदोरक्तास्थिमांसादिदेहद्रव्यसमाकुले ||४ मलमूत्रवसापक नानादुःखसमाकुले । तापत्रय महावह्रिदह्यमानेऽनिशम्भृशम् ॥५ इषणात्रय कृष्णा हि बाध्यमाने दुरत्यये । क्लिश्यामि पापभूयिष्ठे कारागृहनिभेऽशुभे ॥६
-