________________
ऽध्यायः ] भगवन्मन्त्रविधानवर्णनम्। १०४६
एवं ध्यात्वा जपेन्मत्रं सन्ध्यासु विजितेन्द्रियः। सर्ववेदार्थतत्त्वज्ञो भवेदत्र न संशयः ॥३८३ अष्टोत्तरसहस्रं वा शतमष्टोत्तरन्तु वा । जपेच्च जुहुयाच्चैवं साज्यैः शुभ्रः सतण्डुलैः ।।३८४ विद्यासिद्धिमवाप्नोति षण्मासं द्विजसत्तमः । अष्टादशानां विद्यानां वृहस्पतिसमो भवेत् ॥३८५ सहस्रारं हुं फडित्येवं मूलं सौदर्शनं मनुम् । अहिर्बुध्न्योऽ नुष्टुभस्य देवता च सुदर्शनम् ॥३८६ अचक्राय विचक्राय सुचक्राय तथैव च । विचक्राय सुचक्राय ज्यालाचक्राय वै क्रमात् ॥३८७ षडङ्गेषु च विन्यस्य पश्चाद्ध्यानं समाचरेत् । नमश्चकाय स्वाहेति दशदिक्षु यथाक्रमम् ॥३८८ . चक्रेण सह बध्नामीत्युक्त्या प्रतिदिशेत्ततः। औलोक्य रक्ष रक्ष हुं फट् स्वाहा इति वै क्रमात् ॥३८६ अग्निप्रकारमन्त्रोऽयं सर्वरक्षाकरः परः।
ओं मूजि स भ्रमध्ये हं मुखे स्वाहमधीत्यतः ॥३६० रंगुह्ये हं तु जान्वोश्च फट पदद्वयसन्धिषु । कल्पान्ताकप्रकाशं त्रिभुवनमखिलं तेजसा पूरयन्तम् रक्ताक्षं पिङ्गकेशं रिपुकुलभयदम्भीमदंष्ट्राजहासम् । शङ्ख चक्रं गदाजं पृथुतरमुशलं चापपाशाङ्कुशाट्यम् विभ्राणन्दोभिराद्य मनसि मुररिपुं भावयेच्चक्रसंज्ञम् ॥३६१