________________
१०४८
वृद्धहारीतस्मृतिः। [तृतीयोदध्यन्नं पायसं वाऽऽपि जुहुयात्प्रत्यहं द्विजः। औपासनाग्नौ जुहुयादटोत्तरशतं गृही ॥३७५ कुवेरसदृशः श्रीमान् भवेत्सद्यो न संशयः। ओनमो विष्णवे पतये महाबलाय स्वाहा ॥३७६ .
. इति वामनमन्त्रः- . स्मृत्वा त्रैविक्रमं रूपं जपेन्मंत्र मनन्यधीः॥३७७ मुक्तो बन्धाद्भवेत् सद्यो नात्र कार्या विचारणा । ह्रीं श्रीं श्रीवामनाय नम इति मूलमन्त्रः । ब्रह्माकं चैव गायत्री देवता च त्रिविक्रमः । न्यासं बीजेन जफ्यानष्टोत्तरसहस्रकम् ॥३७८ इति वामनमन्त्रस्य जपादन्नपतिर्भवेत् । उद्गीथप्रणवोद्गीथ सर्ववागीश्वरेश्वर ! ॥३७६ सर्ववेदमयाचिन्त्य ? सर्व बोधय मे पितः ।
हुं ऐं हयग्रीवाय नमः॥ . नित्या (ब्रह्माष) चैव गायत्री हयग्रीवोऽस्य देवता । न्यासं बीजेन कृत्वाऽथ पश्चाद्ध्यानं समाचरेत् ॥३८०
शरच्छशाङ्कप्रभमश्ववक्तुं मुक्तामयैराभरणैरुपेतम् । रथाङ्गशङ्खाञ्चितबाहुयुग्मं जानुद्वयंन्यस्तकरं भजामः ॥३८१ शङ्खाभः शङ्खचक्रे करसरसिजयोः पुस्तकं चान्यहस्ते विद्व्याख्यानमुद्रां लसदितरकरो मण्डलस्थः सुधांशोः । आसीनः पुण्डरीके तुरगवरशिराः पूरुषो मे पुराणः श्रीमानज्ञानहारी मनसि निवसता मृग्यजुःसामरूपः ॥३८२