________________
१०४६
वृद्धहारीतस्मृतिः। [तृतीयोतरुणादित्यदित्यसङ्काशं कुण्डलाभ्यां विराजितम् ॥३५३ उपेयन्यासं सुमुखं तीक्ष्णदंष्ट्रविराजितम् । व्यात्तास्य मरुणोष्ठञ्च भीषणैर्नयनैर्युतम् ॥३५४ सिंहस्कन्धानुरूपसिं वृत्तार्यचतुर्भुजम् । जपासमाज्रिहस्तान्जं पद्मासनसुसंस्थितम् ॥३५५ श्रीवत्सकौस्तुभोरस्कं वनमालाविराजितम् । केयूराङ्गदहाराढ्यं नूपुराभ्यां विराजितम् ॥३५६ चक्रशङ्खाभयवरचतुर्हस्तं विभुस्मरेत् । वामाङ्क संस्थितां लक्ष्मी सुन्दरी भूषणान्विताम् ॥३५७ दिव्यचन्दनलिप्ताङ्गी दिव्यपुष्पोपशोभिताम् । गृहीतपद्मयुगलमातुलिङ्गकरां चलाम् ।।३५८ एवं देवीं नृसिंहस्य वामाङ्कोपरिसंस्थिताम् । ध्यात्वा जपेजपं नित्यं पूजयेच्च यथाबिधि ॥३५६
क्षौं ह्रीं श्रीं श्रीं नृसिंहाय नमः॥ इमं लक्ष्मीनृसिंहस्य जपेत् सर्वार्थदं मनुम् । अष्टोत्तरसहस्र वा जपेत् सन्ध्यासु वाग्यतः ॥३६० अखण्डबिल्वपत्रैश्च जुहुयादाज्यमिश्रितैः । सर्वसिद्धिमवाप्नोति षण्मासं प्रयतो भवेत् ॥३६१ देवत्वममरेशत्वं गन्धर्वत्वं तथा नृप !। प्राप्नुवन्ति नराः सर्वं स्वर्ग मोक्षञ्च दुर्लभम् ॥३६२ यं यं कामयते चित्ते तं तमेवाऽऽनुयाद् ध्रुवम् । ब्रह्मर्षी तत्र गायत्री नरसिंहश्च देवता ॥३६३