SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] भगवन्मन्त्रविधानवर्णनम्। १०४५ अस्य मन्त्रस्य ब्रह्मार्ष पङ्क्ति श्छन्दो नृसिंहो देवता नृसिंहास्त्रमिदं वीजेनैव न्यासः।। श्रीकारपूर्वो नृसिंहो द्विर्जयादुपरि स्थितः । त्रिसप्तकृत्वो जप्तुः स्यान्महाभयनिवारणम् ॥३४७ अस्य ब्रह्मा च रुद्रश्च प्रह्लादश्च महर्षयः । तथैव जगति च्छन्दो देवता च नृकेसरी। न्यासं वीजेन कुर्वीत ततो ध्यानं नृपोत्तम ! ॥३४८ माणिक्याद्रिसमप्रभं निजरुचा सन्त्रस्तरक्षोगणम् । जानुन्यस्तकराम्बुजं त्रिनयनं रत्नोल्लसद्भूषणम् ॥ बाहुभ्यां धृतशङ्खचक्रमनिशं दंष्ट्रोल्लसत्स्वाननम् । ज्वालाजिह्वमुदग्रकेशनिचयं वन्दे नृसिंहं प्रभुम् ॥३४६ उद्यत्कोटिरविप्रभ नरहरि कोटिक्षपेशोज्वलम् दंष्ट्राभिः सुमुखोज्वलं नखमुखै परनेकैर्भुजैः॥ निर्भिन्नासुरनायकन्तु शशभृत्सूर्याग्मिनेत्रत्रयम् विद्युजिह्वसटाकलापभयदं वह्निं वहन्तं भजे ॥३५० कोपादालोलजिह्व विवृतनिजमुखं सोमसूर्याग्मिनेत्रंपादादानाभिरक्तं प्रसभमुपरि संभिन्नदैत्येन्द्रगात्रम् ॥ चक्र शङ्ख सपाशाङ्कुशमुसलगदाशाङ्ग वाणान्वहन्तम् भीमं तीक्ष्णाप्रदंष्ट्र मणिमयविविधाकल्पमीडे नृसिंहम् ॥३५१ महाभयेष्विदं ध्यानं सौम्यमभ्युदयेषु च । सौवर्ण मण्डपान्तस्थ पद्म ध्यायेत्सकेसरम् ॥३५२ पञ्चास्यवदनं भीमं सोमसूर्यामिलोचनम् ।
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy