SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ १०४४ वृद्धहारीतस्मृतिः । मूलमन्त्रमिदं प्राहुर्वाराहं मुनिपुङ्गवाः । एतमेव परं मन्त्रं जप्त्वा भूमिपतिर्भवेत् ॥३३८ नित्यमष्टसहस्रं तु जपेद्विष्णुं विचिन्तयन् । कमलैर्विल्वपत्रैर्वा जुहुयाच्च दशांशकम् ।।३३६ एवं संवत्सरं जप्वा सार्वभौमो भवेद्ध्रुवम् । राज्य ं कृत्वा च धर्मेण पश्चाद्विष्णुपदं व्रजेत् ||३४० विधानं नारसिंहस्य मनोर्वक्ष्यामि सुव्रत ! उयं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् ||३४१ नृसिंहं भीषणं भद्रं मृत्योर्मृत्युं नमाम्यहम् । आषं ब्रह्माऽनुष्टुपूच्छन्दो देवता च नृकेसरी ॥३४२ चतुश्चतुश्च षट् षट्च षट्चतुश्च यथाक्रमात् । शिरो ललाटनेत्रेषु मुखवाङ्घ्रिसन्धिषु ॥ ३४३ साग्रेषु कुक्षौ हृदये गले पार्श्वद्वयेऽपि च । अपराङ्गे ककुदमे(दि)च न्यसेद्वर्णान्यनुक्रमात् ॥ ३४४ वायोर्दशाक्षरं यत्तु बहूङ्कारं जपेत् सकृत् । विन्दुना सहितं यत्तु नृसिंहं वीजमुच्यते ॥ ३४५ अङ्गुलीषु तथाङ्गेषु न्यासन्तेनैव चोदितम् । तद्वीजमादितः कृत्वा मन्त्रं पश्चात्प्रयोजयेत् ||३४६ [ तृतीयो ओं नमो भगवते वासुदेवाय नमो नरसिंहाय ज्वालामालिने दीर्घदंष्ट्रायानिनेत्राय सर्वरक्षोघ्नाय सर्वभूतविनाशाय दह दह पच पच रक्ष रक्ष - हुं फट् स्वाहा इति ज्वालामालिपातालनृसिंहाय नमः ॥ वीजेनैवन्यासः । आ ह्रीं क्षौं क्रौं हुं फट् ॥
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy