SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] भगवन्मन्त्रविधानवर्णनम् । १०४१ विचित्रशुभपठङ्क दिव्यकल्पतरोरधः। सुगन्धपुष्पसङ्कीर्णे सर्वतः सुविचित्रिते ॥३०५ तस्मिन् देव्या समासीनं रुक्मिण्या रुक्मवर्णया । नीलोत्पलाभ कन्दर्पलावण्यं पद्मलोचनम् ॥३०६ चन्द्राननं जपापुष्परक्तहस्तपदाम्बुजम् । नीलकुञ्चितकेशं च सुकपोलं सुनासिकम् ॥३०७ सुभ्र युगं सुविम्बोष्ठं सुदन्तालिविराजितम् । उन्नतांसं दीर्घबाहुं पीनवक्षसमव्ययम् ॥३०८ निरङ्कचन्द्रनखरं सर्वलक्षणलक्षितम् । श्रीवत्सकौस्तुभोद्भासं वनमालामहोरसम् ॥३०६ पीताम्बरं भूषणाढ्य बालार्काभं सुकुण्डलम् । हारकेयूरकटकैरङ्गुलीयैश्च शोभितम् ।।३१० मौक्तिकान्वितनासाग्रं कस्तूरीतिलकाञ्चितम् । हरिचन्दनलिप्ताङ्ग सदैवाऽऽरूढ़यौवनम् ॥३११ मन्दारपारिजातादिकुसुमैः कबरीकृतम् । अनर्यमुक्ताहारश्च तुलसी वनमालया ॥ ३२ चक्रशङ्खसमेताभ्यामुबाहुभ्यां विराजितम् । इतराभ्यां तथा देवी समाश्लिष्टं निरन्तरम् ॥३१३ अलङ्कृताभिः सत्यादिमहिषीभिः समाधृतम् । कालिन्दी सत्यभामा च मित्रविन्दा च सत्यवित् ॥३१४ सुनन्दा च सुशीला च जाम्बवती सुलक्षणा । एता महिष्यः संप्रोक्ताः कृष्णस्य परमात्मनः ॥३१५
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy