SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ १०४० [रतीयो वृद्धहारीतस्मृतिः। सकृद् (कृषि) भूवाचकः शब्दो णश्च नि तिवाचकः । उभयोः सङ्गतिर्यत्र तद्ब्रह्मेत्यभिधीयते ॥२६४ णकारश्च षकारश्च बलप्राणा वुभौ स्मृतौ । आत्मन्येतौ समायुक्तौ जगतोऽस्यापि कृष्णतः ॥२६५ तस्मात् कृष्णेति मन्त्रोऽयं वाचकः परमात्मनः । कृष्णेति परमो मन्त्रः सर्ववेदाधिकः स्मृतः ।।२६६ श्रियः सतः प्राणपदात् श्रीकृष्ण इति वै स्मृतः। एवमर्थ विदित्वैव पश्चान्मन्त्रं जपेद्बुधः ॥२६७ सर्वकामप्रदत्वाच्च वीजं कान्दर्पमुच्यते । नित्यानपाया श्रीशक्तिर्मभोरस्य प्रयुज्यते ।।२६८ देवर्षि नारदस्तस्य गायत्री छन्द उच्यते । देवता रुक्मिणी भर्ता कृष्णः सर्वफलप्रदः ॥REE पूर्ववद्विधिना मन्त्रं गृहीत्वा वैष्णवाद्गुरोः । मानवस्त्रादिभिः शुद्धः कृत्यं कृत्वोर्ध्वपुण्ड्रधृत् ॥३०० तुलसीकानने रम्ये देशे वा प्राङ्मुखः शुभे। कुशे कृष्णाजिने वापि पुष्पे वा शुभवासरे ॥३०१ समासीनस्तु कुर्वीत प्राणायामांश्च पूर्ववत् । आदिवीजेन कुर्वीत षडङ्गषु यथाक्रमम् ।।३०२ अङ्गुलीष्वपि तेनैव न्यासकर्म समाचरेत् । मुखं वाह्वोश्च हृदये ध्वजे जान्वोश्च पादयोः ॥३०३ विन्यस्य मन्त्रवर्णानि चक्रं न्यासं ततः कृतम् । पूर्व(जन्ममयादीनि)वन्मन्त्रपादीनि स्मरे(दाभरणानि)च्छाभरणानि च ॥३०४
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy