SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ १०३४ वृद्धहारीतस्मृतिः। [तृतीयो. विष्णोर्लोकमवाप्नोति पुनरावृत्तिवर्जितम् । पूर्ववजपहोमाज्यं कृत्वा सिद्धिं नरो लभेत् ।।२२६ भगवत्सन्निधौ वापि तुलसीकाननेऽपि वा। समाहितमना जप्त्वा षडणं नियतेन्द्रियः।।२३० तिलहोमायुतं कृत्वा सर्वसिद्धिमवानुयात् । एवं विष्णुमनोः प्रोक्तं विधानं नृपसत्तम ! ॥२३१ विधानैरधुनाऽमुष्य मस्त्रस्यापि ब्रवीमि ते । षडक्षरं दाशरथेस्तारकब्रह्म कथ्यते ॥२३२ सर्वैश्वर्यप्रदं नृणां सर्वकामफलप्रदम् । एतमेव परं मन्त्रं ब्रह्मरुद्रादिदेवताः ।।२३३ ऋषयश्च महात्मानो मुक्त्वा जप्त्वा भवाम्बुधौ। एतन्मन्त्रमगस्त्यस्तु जप्त्वा रुद्रत्वमाप्नुयात् ।।२३४ ब्रह्मत्वं काश्यपो जप्त्वा कौशिकस्त्वमरेशताम् । कार्तिकेयो मनुत्वञ्च इन्द्राकौं गिरिनारदौ ।।२३५ बालखिल्यादिमुनयो देवतात्वं प्रपेदिरे । एष वै सर्वलोकानामैश्वर्यस्यैव कारणम् ।।२३६ इममेव जपेन्मत्रं रुद्र त्रिपुरघातकः । ब्रह्महत्यादि निर्मुक्तः पूज्यमानोऽभवत् सुरैः ॥२३७ अद्यापि काश्यां रुद्रस्तु सर्वेषां त्यक्तजीविनाम् । दिशत्येतन्महामन्त्रं तारकब्रह्मनामकम् ।।२३८ तस्य श्रवणमात्रेण सर्व एव दिवं गताः । श्रीरामाय नमो ह्येष तारकब्रह्मनामकः ॥२३६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy