SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ध्यायः] ___भगवन्मन्त्रविधानवर्णनम्। १०३३ स्यादोम्बीजं नमः शक्तिर्मनोरस्य प्रकीर्तितम् । . त्रिभिः पदैः षडङ्गेषु यथासंख्यं सुविन्यसेत् ।।२१८ अङ्गुलीष्वपि चाङ्गेषु मन्त्रार्णानि यथाक्रमात् । मूास्ये हृदये वाह्वोः पृष्ठे गुह्ये यथाक्रमम् ॥२१६ विन्यस्य चक्रन्यासं च पश्चाद्धचानेषु तन्मयम् । प्रणवेनोन्मुखीकृत्य हृत्पङ्कजमधोमुखम् ।।२२० विकासयेच्च मन्त्रेग विमलं तस्य केशरम् । तस्योपरि च वयर्कसोमविम्वानि चिन्तयेत् ॥२२१ तत्र रत्नमयं पीठं तन्मध्येऽष्टदलाम्बुजम् । तस्मिन् कोटिशशाङ्काभं सर्वलक्षणलक्षितम् ॥२२२ चतुर्भुजं सुन्दराङ्ग युवानं पद्मलोचनम् । कोटिकन्दर्पलावण्यं नीलध्र लतिकालकम् ॥२२३ श्लक्ष्णनासं रक्तगण्डं विम्बितोज्ज्वलकुण्डलम् । शङ्खचक्रगदापद्मधारणं दोभिरुज्वलैः ॥२२४ केयूराङ्गदहाराद्यै भूषणैश्चन्दनैरपि। अलङ्कृतं गन्धपुष्पै रक्तहस्ताविपङ्कजम् ।।२२५ मुक्ताफलाभदन्तालिं वनमालाविभूषितम् । श्रीवत्सकौस्तुभोरस्कं दिव्यपीताम्बरं हरिम् ।।२२६ तप्तकाञ्चनवर्णाभं पद्मया पद्महस्तया। समाश्लिष्टममुं देवं ध्यात्वा विष्णुमयो भवेत् ।।२२७ मनसैवोपचाराणि कृत्वा मन्त्रं जपेत्ततः । त्रिसन्ध्यासु जपेन्नित्यं सहस्र साष्टकं द्विजः ।।२२८
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy