________________
बृद्धहारीतस्मृतिः।
[तृतीयो अनामयत्वादीशत्वाद्गभस्तत्वाघृणित्वतः। यथेष्ठफलदातृत्वाद्विष्णुरित्यभिधीयते ॥२०७ णकारो बलमित्युक्तः षकारः प्राण उच्यते । सयोस्तु सङ्गतिर्यत्र तदात्मेत्युच्यते धृतिः ॥२०८ तस्माण्णकारषकारावनुसंहितमुत्तमम् । सप्राणं सबलं देव ! संहितामुत्तमां तु यः ॥२०६ तस्यैवायुष्यमित्युक्तं नेतरस्यैव च श्रुतेः। एतदेव हि विद्वांसो वक्ष्यन्ते ये महर्षयः ॥२१० एवं वक्ष्यामहे किन्तु किमुत व्याख्यामहे वयम् । इमौ णकारषकारावसुसंहितमेति यत् ।।२११ तदेव विष्णुः कृष्णेति जिष्णुरित्यभिधीयते । विष्णवे नम इत्येष मन्त्रः सर्वफलप्रदः ॥२१२ ऐश्वयं तु विकारः स्यात्तादात्म्याण्गद्वयं स्मृतम् । ऐश्वर्य्यद्वयवीजं स्याद्विष्णुमन्त्रमनुत्तमम् ॥२१३ तत् षडणविधानेन केवलं वै जपेमहि । इत्युक्त्वा मुनयः सर्वे वेदवेदान्तपारगाः ।।२१४ परित्यज्येतरं धर्म तदेकशरणं गताः । एवं महामनुजप्त्वा विधानेनाच्युतं गताः ।।२१५ तस्मादेतन्महामन्त्रं सर्वसिद्धिप्रदं नृप !।। सकृदुचारणेनास्य हरिस्तत्र प्रसीदति ॥२१६ ब्रह्माद्याः सनकाद्याश्च मुनयश्च जपन्ति हि । छन्दस्तु तस्य गायत्री देवता विष्णुरच्युतः ॥२१७