SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ १०२८ वृद्धहारीतस्मृतिः। [तृतीयोवक्ष्यन्ति केचिद्भगवान् ज्ञानवानिति सत्तमाः। तद्वासुदेवेनोक्तं स्यात्सामान्यत्वात्ततोऽन्यथा ॥१६५ तस्मात्कल्याणगुणवान् श्रीमान् योऽसौ जगत्पतिः । स एव भगवान् विष्णुर्वासुदेवः सनातनः ॥१६६ भगवते श्रीमते चेत्येकार्थे हि प्रोच्यते बुधैः । गुणवान् भगवानेव सृष्टिस्थिति विनाशकृत् ॥१६७ द्वौ द्वौ गुणावधिष्ठाय सर्वाद्यमकरोत्प्रभुः । प्रद्युम्नश्वानिरुद्धश्च सङ्कर्षण इतीरितः ॥१६८ भगवान् वासुदेवोऽसौ सृष्ट्याद्यमकरोत् स्वयम् । ऐश्वर्यवीर्यवान् सर्गे प्रद्युम्नः पर्यपद्यत ॥१६६ तेजःशक्तिं समाविश्य अनिरुद्धो पालयत् । .. बलज्ञाने तथा द्वे तु सङ्कर्षणो ह्यधिष्ठितः ॥१७० अकरोद्भगवानेव संहारं जगतः पुनः । एवं षड्गुणपूर्णत्वात् पतित्वावपि च श्रियः॥१७१ सर्गादेः कारणत्वाञ्च भगवानिति चोच्यते । सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः ॥१७२ ततः स वासुदेवेति विद्वद्भिः परिपद्यते । चतुर्थी पूर्वविद्विधात् कैङ्कर्यार्थ महात्मनः ॥१७३ एवं ज्ञात्वा मनोरथं द्वादशार्णस्य चक्रिणः । संसिद्धि परमाप्नोति सम्यगावर्त्य चेतसा ॥१७४ गत्वा गत्वा निवर्तन्ते सर्वक्रतुफलैरपि । तद्गत्वा न निवतन्ते द्वादशाक्षरचिन्सकाः ॥१७५
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy