________________
ध्यायः] भगवन्मन्त्रविधानवर्णनम् । १०२७
अष्टाक्षरस्य जप्तारं दृष्ट्या पापैः प्रमुच्यते । अष्टाक्षरस्य जप्तारो यथा भागवतोत्तमाः ॥१५४ पुनन्ति सकलं लोकं सदेवासुरमानुषम् । अष्टाक्षरस्य जप्तारं प्रणमेद्यस्तु भक्तितः ॥१५५ सर्वपापविनिर्मुक्तो विष्णुलोके महीयते । अचिन्त्यमेतन्माहात्म्यं मनोरस्य जगत्पतेः ॥१५६ न हि वक्तुं मया शक्यं ब्रह्मादित्रिदशैरपि। अथ वक्ष्यामि माहाम्यं द्वादशार्णस्य पार्थिव ! ॥१५७ यस्योच्चारणमात्रेण द्वादशाब्दफलं लभेत् । नमो भगवते नित्यं वासुदेवाय शाङ्गिणे ॥१५८ प्रणवेन समायुक्तं द्वादशार्णमर्नु जपेत् । पूर्ववत्प्रणवस्याथ नमसश्च महामनोः ॥१५६ ऐश्वयं च तथा वीर्य तेजः शक्तिरनुत्तमा। ज्ञानं बलं यदेतेषां षण्णां भगवदीरितः ॥१६० एभिर्गुणः पूर्ववाक्यः स एव भगवान् हरिः। नित्या च या भगवती प्रोच्यते मुनिसत्तमैः ॥१६१ ऐश्वर्यरूपा सा देवी सुभगा कमलालया। ईश्वरी सर्वजगतां विष्णुपत्नी सनातनी ॥१६२ तस्याः पतित्वा धीशस्य भगवानिति चोच्यते । तस्मात्तु भगवान् श्रीमानेकार्थो मुनिभिः स्मृतः ।।१६३ भगवानिति शब्दोऽयं तथा पुरुषइत्यपि । निरुपाधौ च वर्तेत वासुदेवेऽखिलात्मनि ।।१६४