________________
१०२२
वृद्धहारीत मृतिः। [तृतीयो क्षयैरकारः सम्प्रोक्तो नकाररतं निषिध्यति । तस्मात्तु नर इत्यत्र नित्यत्वेनोच्यते जनः ।।१०१ नारा इति समूहले वाहुल्यत्वाजनस्य च । तेपामयनमावासस्तेन नारायणः स्मृतः ॥१०२ महाभूतान्यहङ्कारो महदव्यक्तमेव च । अण्डं तदन्तर्गता ये लोकाः सर्वे चतुर्दश ॥१०३ चतुर्विधशरोराणि कालः कर्मति व जगत् । प्रवाहरूणां नारत्नोच्यते बुधैः ॥१०४ तेषामपि निवासत्वान्नारायण इतीरितः । अन्तर्वहिश्व जगतो धाता सच सनातनः ।।१०५ स्रष्टा नियन्ता शरणं विधाता भूतभावनः। .. माता पिता सखा भ्राता निवासश्च सुहृद्गतिः ॥१०६ योनौ श्रियः श्री परमस्तेन नारायणः स्मृतः। . नराणां सर्वजगतामय शरणं हरिः॥१०७ .. तस्मान्नारायण इति मुनिभिः सम्प्रकीय॑ते । सर्वेषु देशकालेषु सर्वावस्थासु सर्वदा ।।१०८ तस्यैव किङ्करोस्मोति चतुर्दा परमात्मनः । भगवत्परिचयैव जीवानां फलमुच्यते ।।१०६ तद्विना किं शरीरेण यातनास्य जनस्य तु। यस्मिन् शरीरे जीवानां न दास्यं परमात्मनः ॥११० तदेव निरयं प्रोक्तं सर्वदुःखफलं भवेत्। . दास्यमेव फलं विष्णोर्दास्यमेव परं सुखम् ॥१११