________________
व्याचा] भगवन्मन्त्रविधानवर्णनम् । १०२१
अस्वातन्त्र्यात्तु जीवानामधीनं परमात्मनः । नमसा प्रोच्यते तस्मान्नहन्ताममतोऽपितम् ।।१० स्वरूपादित्रिवर्गस्य संसिद्धिनतु सैव हि । नमसा रहितं सब विफलं सम्प्रकीर्तितम् ।।११ नमसैव हि संसिद्धिर्भवेदत्र न संशयः। पुरतः पृष्ठतश्चैव पार्श्वतश्चावशेषतः ॥२ नमसैवेक्षते राजन् ! त्रिवर्गः सर्वदेहिनाम् । मकारेण स्वतन्त्रः स्यानरकस्तं निषिध्यति ॥६३ तस्माच नम इत्यत्र स्वातन्त्र्यमपनोदति । द्वपारस्तु भवेन्मृत्युरुयक्षरस्तु हि शाश्वतम् ॥६४ ममेति द्वपक्षरं मृत्युन ममेति तु शाश्वतम् । म ममेति च सर्वत्र स्वातन्त्ररहिताय वै ॥५ युज्यते मुनिभिः सम्यक् सर्वकर्मसु पार्थिव !। तस्मात्तु नमसा युक्ता मन्त्राः सर्वे च पार्थिव ! ॥६६ सर्वसिद्धिप्रदा नृणां भवन्यत्र न संशयः। नमसा रहिता ये तु न तु मुक्तिप्रदा नृणाम् ॥६७ तस्मात्तु नम संवैषां पारतन्ध्यत्वमीशितुः । पारतन्त्र्याल्लभेत् सिद्धिं स्वातन्त्र्यानाशमेष्यति ॥६८ दास्यमेव हि जोवानां प्रोच्यते नमसैव तु । नमसा रहितं लोके किञ्चिदत्र न विद्यते ॥६६ नमो देवेभ्यो नम इति येषामोशे तथा मनः। हृतश्चिदेनो नमसा आविवाक्येति वै श्रुतिः ॥१००