________________
भवायः] भगवन्मन्त्रविधानवर्णनम् । १०१६
लक्ष्मीमनपगामिनीमिति श्रुतिवचो महत् । तस्माद कारो वै विष्णुः श्रीश एव जगत्पतिः ।।६६ लक्ष्मीपतित्वं तस्यैव नान्यस्येति सुनिश्चितम् । नित्यैवैषा जगन्माता हरेः श्रीरनपायिनी ॥७० यथा सर्वगतो विष्णु स्तथैवैषा जगन्मयी। .. तस्मादकारो वै विष्णुर्लक्ष्मी भर्ता जत्पतिः ॥७१ तस्मिंश्चतुर्थीयुक्तत्वात् त्रिपदत्य च संग्रहः । 'अकार प्रथमां तस्माच्चतुष्यों संग्रहं न तु ॥७२ तब श्रुतिविरोधत्वान्न युक्तमिति चोदितम् । महसे ब्रह्मगे त्वा वै ओमित्यात्मानं युञ्जीत ॥७३ परस्य चात्मनां तस्माद्भद स्तत्र सुनिश्चितः ॥७४ . स्वमस्माकं तपस्येव श्रुत्युक्तमपि पार्थिव !। तौ शाश्वतौ विष चेता वियन्ताविति वै तया ॥७५ गृभिष्य दया प्रागेववात्मा न विश्वभृत् । असोयमों मन नयेनेत्येवयोनिता ॥७६ इत्यादि श्रुतयो भेदं वदन्ति परजोवयोः । दास्यमेवात्मनां विष्णोः स्वरूपं परमात्मनः॥७७ साम्यं लक्ष्मीवरप्रोक्तं देवादीनां तथात्मनाम् । अनन्यशेषरूपा वै जीवास्तस्य जगत्पतेः ।।७८ दास्यं स्वरूपं सर्वेषामात्मनां सतपं हरेः। भगवच्छेषमात्मानमन्यथा यः प्रपद्यते ॥७६