________________
१०१७
ऽध्यायः] भगवन्मन्त्रविधानवर्णनम् ।
इह लौकिकमैश्वयं स्वर्गाद्य पारलौकिकम् ।। कैवल्यं भगवत्त्वश्च मन्त्रोऽयं साधयिष्यति ।।४७ सकृदुञ्चारणान्नृणां चतुफिलप्रदम् । स्वरूपं सावनं प्राप्यं ददाति हि समञ्जसा ॥४८ महापापं चातिपापं विद्यते वोपपातकम् । जपादस्य मनोराशु प्रणश्यन्ति न संशयाः ॥४६ अश्वमेधसहस्राणि राजसूयशतानि च । सकृदष्टाक्षरं जप्त्वा लभते नात्र संशयः ॥५० गव मयुतदानस्य पृथिव्या मण्डलस्य च । कन्याशतसहस्रस्य गजाश्वानां तथैव च ॥५१ दानस्य यत्फलं नृणां सत्पात्रे नृपनन्दन !। शतवारं मर्नु जप्त्वा तत्फलं सर्वमाप्नुयात् ॥५२ सार्थं समुद्रं सन्न्यासं सर्षिच्छन्दोऽधिदैवतम् । अष्टाक्षरम नुञ्जप्त्वा बिष्णुसायुज्यमाप्नुयात् ।।५३ पदत्रयात्मकं मन्त्रं चतुर्थ्या सहितं तदा । स्वरूपसाधनोपेयमिति मत्वा जपेद्बुधः ।।५४ प्रणवेन स्वरूपं स्यात् साधनं मनसा तथा। संबिभत्या चतुर्थ्यात्र पुरुषार्थो भवेन्मनोः॥५५ अकारञ्चाप्युकारञ्च मकारञ्चेति तत्वतः। तान्येकधा समभवत्तदोमित्येतदुच्यते ॥५६ तस्मादोमिति प्रणवो विज्ञेयः साक्षरात्मकः । वेदत्रयात्मकं ज्ञेयं भूर्भुवःस्वरितीति वै ॥५७ ।