________________
२०१४ . वृद्धहारीतस्मृतिः।
[तृतीयोकरयोः स्थलयोराद्य मक्षरं विन्यसेद्विजः । शेषाक्षराणि देयानि चतुर्विंशतिपर्वसु ।।१५ पट्पदैरङ्गुलिन्यास मङ्गेषु च यथाक्रमम् । षडङ्गं षट्पदैः कृत्वा मन्त्राथैश्च यथ.क्रमम् ॥१६ मूर्ध्नि भाले नेत्रनासाश्रवणे तथाऽ.नने । भुजयोह पदेशेच स्तनयो भिमण्डले ॥१७ पृष्ठे च जघने कट्योवोन्विोश्च पादयोः । पञ्चविंशाक्षराण्यत्य क्रमे गाङ्गेषु विन्यसेत् ॥१८ एवं न्यासविधिं कृत्वा पश्चाद्धयानं समाचरेत् । इन्दीवरदलश्यामं कोटिसूर्याग्निवर्चसम् ॥१६ चतुर्भुजं सुन्दराङ्गं सर्वाभरणभूपितम् । पद्मासनस्थं देवेशं पुण्डरीकनिभेक्षणम् ॥२० रक्तारविन्दसदृशदिव्यहस्तपदाञ्चितम् । माणिक्यमुकुटोपेतं नीलकुन्तलशीर्पजम् ।।२१ श्रीवत्सकौस्तुभोरकं वनमालाविराजितम् । . दिव्यचन्दलिझाङ्गं दिव्यपुपावतंसकम् ।।२२ हारकुण्डलकेयूरनूपुरादि विराजितम् । कटकैरङ्गुरीयैश्च पीतवस्त्रेण शोभितम् ।।२३ शपद्मगदाचक्रपाणिनं पुरुषोत्तमम् । . वामा चिन्तयेत्तस्य देवीं कमललोचनाम् ।।२४ तरुणी सुकुमाराङ्गी सर्वलक्षणशोभिताम् । दुकूलवस्त्रसंयुक्तां सर्वाभरणभूषिताम् ।।२५