SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] भगवन्मन्त्रविधानवर्णनम् । सर्वेश्वर्यप्रदं पथ्यं सर्वेषां सर्वकामदम् । यस्योच्चारणमात्रेण परितुष्टो भवेद्धरिः ।।४ देशकालादिनियममरिमित्रादिशोधनम् । स्वरवर्णादिदोषश्च पौरश्चरणकं न तु ॥५ ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शृद्रास्तथेतराः । तस्याधिकारिणः सर्वे सत्वशीलगुणा यदि ॥६ पञ्चसंस्कारसम्पन्नाः श्रद्धावन्तोऽनसूयकाः । भक्त्या परमयाविष्टा युक्तास्तस्याधिकारिणः ॥७ पञ्चविंशाक्षरो मन्त्रः पदैः षड्भिः समन्वितः । वाक्यद्वयं परं ज्ञयं मन्त्ररत्नमनुत्तमम् ।।८ यदाश्रयति विवादिः संस्थिता जगतां पतिम् । तया विद्याऽनपायिन्या संयुतः परमः पुमान् ॥8 नारायणो च्युतः श्रीमान् वात्सल्यगुणसागरः। नाथः सुशीलः सुलभः सर्वज्ञः शक्तिमान परः ॥१० आपद्वन्धुः सदा मित्रं परिपूर्णमनोरथः । दयासुधाब्धिः सविता वोर्यवान् द्युतिमान् विभुः ॥११ प्रपद्य चरणौ तस्य शरणं श्रेयसे मम । श्रीमते विष्णवे नित्यं सर्वावस्थासु सर्वदा ॥१२ निर्ममो निरहङ्कारः कैङ्कयं करवाण्यहम् । एवमथं विदित्वैव पश्चान्मन्त्रं प्रयोजयेत् ।।१३ . नारायणो महाशब्दो गायत्री च परा शुभा । स्वयं नारायणः श्रीमान् देवता समुदाहृतः ॥१४
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy