________________
१०१०
वृद्धहारीतस्मृतिः। [द्वितीयोअष्टाक्षरं द्वादशाणं षट्कुक्षीं वैष्गवीं तदा। . रामकृष्णनृसिंहाख्यान मन्त्रान् तस्मै नि दयेत् ॥१२६ न्यासे वाप्यर्चने वापि मन्त्रमेकान्तिनं श्रयेत् । अवैष्णवोपदिष्टेन मन्त्रेण नरकं व्रजेत् ।।१३० अवैष्णव द्गुरोमन्त्रं यः पठेद्वैष्गवो द्विजः । कल्पकोटिसहस्राणि पच्यते नरकात्मना ॥१३१ अचक्रधारिणं यस्तु मन्त्रमध्यापयेद्गुरुः। रौरवं नरकं प्राप्य चाण्डाली योनिमाप्नुयात् ॥१३२ तस्मादीक्षाविधानेन शिष्यं भक्तिसमन्वितम् । मात्रमध्यापयेद्विद्वान् वैष्णवं पापनाशनम् ।।१३३ अनधीत्य हयं मन्त्रं योऽन्यवैष्णवमुत्तमम् । अधीत्यमन्त्रसंसिद्धि न प्राप्नोति न संशयः ॥१३४ जातकमणि वा चौले तदा मौञ्जनिबन्धने । चक्रस्य धारणं यत्र भवेत्तस्य तु तत्र वै॥१३५ उपनीय गुरुः शिष्यं गृह्योक्तविधिना ततः । अध्यापयेच्च सावित्रं तपोमन्त्रं द्वगं शुभम् ॥१३६ प्रातमन्त्र स्ततः शिष्यः पूजयेच्छूद्धया गुरुम् । गोभूहिरण्यरत्नाद्यैः वासोभिभूषणैरपि ।।१३७ सद्वक्ता शासयेच्छिध्यमाचार्यः संशितव्रत । स्वरूपं साधनं साध्यं मन्त्रेगास्मै निवेदयेत् ॥१३८ द्वयेन वृत्तियाथात्म्यं सम्यगस्मै निवेदयेत् । आचार्याधीनवृत्तिस्तु संयतस्तु वसेत् सदा ॥१३६