________________
१०११
ऽध्यायः ] पञ्चसंस्कारविधिर्नामवर्णनम्।
कर्मणा मनसा वाचा हरिमेव भजेत् सुधीः । यावच्च तोरपातन्तु द्वयमावर्तयेत्सदा ॥१४० एवं हि विधिना सम्यमन्त्रसंस्कारसंस्कृतः ॥१४१
इति मन्त्रसंस्कारश्चतुर्थः।
अथ पञ्चसंस्कारविधिर्नामवर्णनम् । मन्त्रार्थतत्वविदुपं यागतन्त्रे नियोजयेत् । पूर्वाह्न पूजयेदवं तस्य प्रियतरं शुभः ॥१४२ मन्त्ररत्न विधानेन गन्धपुष्पादिभिर्गुरुः । अर्चयित्वाच्युतं भक्त्या होमं पूर्ववदाचरेत् ॥१४३ सर्वैश्च वैष्णवैः सूक्तैः पायसं घृतमिश्रितम् । आज्यं मन्त्रण होतव्यं शतमष्टोत्तरं तदा ॥१४४ शक्त्या च वैष्णवैमन्त्रैः सर्वैहोंमं समाचरेत् । एकैकमाहुति हुत्वा सर्वावरणदेवता ॥१४५ प्रणवादिचतुश्यन्तै स्तेषां वै नामभिर्यजेत् । होमशेषं समाप्याथ वैष्णवान् भोजयेत्तदा ॥१४६ मन्त्ररत्नेन तद्विम्बं पुपाञ्जलिशतं यजेत् । प्रणम्य भक्त्या देवेशं जप्त्वा मन्त्रमनुत्तमम् ।।१४७ आहूय प्रणतं शिष्यं तद्विम्बं दर्शयेद्गुरुः । कृपयाथ ततरवमै दद्यद्विम्ब हरेगुरुः ॥१४८