________________
ध्यायः ] वैष्णवाना मन्त्रसंस्कारवर्णनम् ।
अपराधशतैर्जुष्टं नम स्तेन मम च्युतम् । एवं प्रपद्य लक्ष्मी तां श्रियं सद्गुरुभावतः ॥११६ नित्ययुक्तं तया देव्या वात्सल्यादिगुणान्वितम् । शरण्यं सर्वलोकानां प्रपद्ये तं सनातनम् । नारायण ! दयासिन्धो ! वात्सल्यगुणसागर ! ॥१२० एनं रक्ष जगनाथ ! वहुजन्मापराधिनम् । इत्याचार्येण सन्दिष्टः प्रपद्यत जनार्दनम् ।।१२१ प्रपद्यत ततः शिष्यो गुरुमेव दयानिधिम् । गुरो ! त्वमेव मे देव स्त्वमेव परमागतिः ।।१२२ त्वमेव परमो धर्म स्त्वमेव परमं तपः । इति प्रपन्नाचार्यो निवेश्य पुरतोहरेः ।।१२३ प्रागप्रेषु समासीनं दर्भेषु सुसमाहितः । स्वाचार्य पुरतो ध्यात्वा नमस्कृत्वाय गतिमान ॥१२४ गुरोः परम्परा जप्या हृदि ध्यात्वा जनार्दनम् ।। कृपया वीक्षितं शिष्यं दक्षिणं शानदक्षिणम् ।।१२५ निक्षिप्य हस्तं शिरसि वामं हृदि च विन्यसेत् । पादौ गृहीत्वा शिष्यस्तु गुरोः प्रयतमानसः ॥१२६ भो ! गुरो ! ब्रूहि मन्त्रं मे ब्रूयादिति दयानिधे !। अध्यापयेत्ततस्तस्मै मन्त्ररत्नं शुभाह्वयम् ।।१२७ सन्न्यासश्च समुद्रश्च सर्पिषण्डोऽधिदैवतम्। साथमध्यापयेच्छिध्यं प्रयतं शरणागतम् ।।१२८
६५