SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः ] वृद्धहारीतस्मृतिः । धूप दीपभ्च नैवेद्यं ताम्बूलश्व समर्पयेत् । प्रदक्षिण मनुब्रज्य भक्त्या सम्यक् प्रणम्य च ॥६६ तन्मत्रं मूलमन्त्रं वा जपेत्साहस्रसङ्ख्यया । पश्चाद्धोमं प्रकुर्वीत शतमष्टोत्तरं हविः ॥ १०० वैष्णवैरनुवाकैश्च जुहुयात् सर्पिषा तदा । नाम दद्यात् ततः शिष्यं मन्त्रतोये समाप्लुतम् ॥१०१ ततः पुष्पाञ्जलिं दत्वा होमशेषं समापयेत् । वैष्णवान् भोजयेत्पश्चाद्दक्षिणाद्यैश्च तोषयेत् ॥१०२ एवं हि नाम संस्कारं कुर्वीत द्विजसत्तमः । गुणयोगेन चान्यानि विष्णोर्नामानि लौकिके ॥१०३ विशिष्टं वैष्णवं नाम सर्वकर्मसु चोदितम् । हरेः परं पितुर्नाम यो ददात्यपरं सुनम् ॥१०४ अतिरोचनकं दिव्यं तृतीयं श्रुतिचोदितम् । तस्माद्भगवतो नाम सर्वषां मुनिभिः स्मृतम् ॥१०५ इति नामसंस्कार स्तृतीयः अथ वैष्णवानांमन्त्रसंस्कारवर्णनम्। 1 एवं तृतीय संस्कारं कृत्वा वै वैदिकोत्तमः । चतुर्थमन्त्रसंस्कारं कुर्वीत द्विजसत्तमः ॥ १०६ ततः (प्रातः) स्नात्वा विधानेन पूजयेत् जगतां पतिम् । अष्टोत्तरसहस्रं तु मन्त्ररत्नं जपेद् गुरुः ॥ १०७ १००७
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy